पृष्ठम्:Dvisandhanam kavya.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ सर्गः] द्विसंधानम् । तदाशशंसे रणभूमिरेषां प्राज्योचिताङ्गा पतिमात्तबाणा। परासुमज्जातिकृतावलेपा पतिवराभ्यङ्गविधि गतेव ॥ ३२॥ . तदेति ॥ प्राज्योचिताङ्गा प्राज्यानि प्रयुराणि उचितानि योग्यानि अङ्गानि गजवा- जिस्थपदातिलक्षणानि यस्यां सा, प्रकृष्टस्य आज्यस्य घृतस्य उचितमङ्गं यस्याः सा। विवाहाङ्गाभ्यङ्गे घृतसंपर्को जायते । आत्तबाणा गृहीतशरा । परासुमज्जातिकतावलेपा परासूनां शवानां मज्जया अति कृतो अव समन्ताल्लेपो यस्याम, परासु उत्कृष्टासु असुम- ज्जातिषु प्राणिजातिषु कृतोऽवलेपो गर्यो यया सा, रणभूमिः, अभ्यविधि मज्जनक्रियां गता पर्तिवरा कन्या इव, एषां नरेन्द्राणां पति तदा आशशंसे श्लाघते स्म ॥ स्थिराक्षरान्तं युधिशब्दपूर्व नाम प्रसिद्धं भुवनं समस्तम् । यस्य स्तुतेऽद्यापि विनामयुक्तं क्रुद्धः सरामो हि गतिर्नयस्य ॥ ३३ ॥ स्थिरेति ॥ समस्तं भुवनं कर्त. यस्य प्रसिद्धं नाम रामेति, स्थिराक्षरान्त स्थिरोऽवि- चलोऽक्षरस मोक्षस्यान्तोऽष्टगुणलक्षणो धर्मो यस्मात्स्तवनकर्मणः तद्यथा स्यात्तथा, श. ब्दपूर्व शब्दो यशः पूर्वो यस्मात्तद्यथा स्यासथा, विनामयुक्तं विनामः प्रणामो युक्तो यत्र तद्यथा स्यात्तथा, अद्यापि स्तुते स्तवीति । स रामः युधि क्रुद्धोऽपि नयस्य गतिः ॥ भारतीये-स्थिराक्षरान्तं "स्थिर' इति अक्षरं पदम् अन्ते यस्य तत्, युधिशब्दपूर्व 'युधि' इति शब्दः पूर्वो यस्य तत्, विनामयुक्तं विनामेन षत्वेन युक्तं यस्य नाम 'युधिष्ठिरः' इति । यस्य गतिः केनोपायेन जीवामीति लक्षणा वर्तना न । स रामः रेण गम्भीरध्व. निना आमेन सान्द्रचेतसा सहितः, स नरेन्द्रः क्रुद्धः ॥ खैरञ्जनानन्दनमाशुकारैर्मीमन्दमानम्रमरातिजातम् । कुर्वन्तमुद्यन्तमुदीक्ष्य सेन्ट्रैर्विसिस्मिये खेऽधिगतैर्विमानम् ॥ ३४ ॥ स्वैरेति ॥ सेन्द्रः खेऽधिगतैः खेचरैः स्वैरात्मीयैराशुकारैः शीघ्रकरणैररातिजातं शत्रु- जातं भीमन्दं मिया मन्दम्, आननं कुर्वन्तम्, उद्यन्तमुद्यम चरन्तम् अञ्जनानन्दनम् उदीक्ष्य विसिस्मिये ॥ भारतीये-आशुकारैः स्वैरम्, जनानन्दनम्, शत्रुजातं दमाननं दमेनाननं कुर्वन्तं भीमं वृकोदरम् ॥ प्रभावितारातनयस्य वीर्य कृताधिपार्थस्य निरूप्य भीताः । दत्तान्तराः पूर्वसरा बभूवुर्विपद्विरुद्धा इव बन्धुवर्गाः ॥ ३५ ॥ अमेति ॥ कृताधिपार्थस्य कृतो अधिपस्याओं येन तादृशः, तारातनयस्य अङ्गदस्य प्रभावि वीर्य निरूप्य अवलोक्य भीता बन्धुवर्गाः पूर्वसरा अप्रतः सराः । विपद्विरुद्धा इव । दत्तान्तरा दत्तावसरा बभूवुः ॥ भारतीये-प्रभावितारातनयस्य प्रभावितो निश्चित भारातनयः शत्रुसंबन्धिनीतियन तादृशः। पार्थस्यार्जनस्य । कृताधि विहिताधि ॥ २२ Dogticed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१७९&oldid=234649" इत्यस्माद् प्रतिप्राप्तम्