पृष्ठम्:Dvisandhanam kavya.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ सर्गः] द्विसंधानम्। न सौढवैराधितरौद्रहेतिः स्थिरं तथैकं पदमन्यसेना । वैराटवीचारभयेन जाता गेहेष्विवाजिष्वपि कस्य गर्जः ॥४१॥ नेति ॥ अन्यसेना रावणसेना सोढवैराधितरौद्रहेतिः सोढा वैराधित्यो विराधितस्य च. न्द्रोदरपुत्रस्येमा रौबस्तीवा हेतयो यया तादृक् न जाता, तथा तस्या एकं पदं वैरा- ट्वीचारभयेन वैराटव्यां विरोधारण्ये चारात्प्रवर्तनात् भयेन, स्थिरं न जातम् ॥भार- तीये-अन्यसेना विपक्षसेना, सोढवैरा सोडं वैरं यया ताक्, रौद्रहती रौद्यो हेतयो यस्यां तादृक् न जाता, तथैकमपि पदं वैराटवीचारभयेन वैराटाद् विराटनरेन्द्रकृतात् वीचारान्मारणाद् भयेन स्थिरं न आषित ॥ तं सत्यकोपाहतशत्रुमुवैरामन्दमारम्भगभीरनादः। विभीषणः सोऽप्रजवैरभीतः समेत्य नाथं प्रधनं ननाथ ॥ ४२ ॥ तमिति ॥ दमारम्भगभीरनादो दमस्य विद्याभ्यासाय श्रमस्य आरम्भेण गभीरो नादौ यस्य, अग्रजवैरभीतोऽप्रजस्य वैरागीतः, स विभीषणः सत्यकोपाहतशत्रु सत्येनाक- त्रिमेण कोपेन आइताः शत्रयो येन तं नाथं स्वामिनं रामं समेत्य प्रधनं युद्धं उचैरति- शयेन ननाथ ययाचे ॥ भारतीये--उरा: प्रचुरद्रव्यः आरम्भगभीरनादः आरम्भे ग. भीरो नादो यस्य सोऽभजवैः प्रधानजवैविभीषणो भयानकोऽभीतो निर्भयः, सत्यकः कौरवगृह्योऽपाहतशत्रु तं नाथं युधिष्ठिरं मन्दं यथा स्यात्तथा समेत्य ।। स एष संभूय समुद्यतात्मा विश्वोऽपि विश्वं भुवनं जिगीषुः । राजाध्यपेतो बहुशस्त्रपातो बभूव रागादिरिवात्मतन्त्रः ॥ ४३ ॥ स एपेति ॥ समुद्यतात्मा विश्वं भुवनं जिगीषुरध्यपेतो भिन्नो बहुशनपातः स एष विश्वोऽपि समस्तोऽपि राजा संभूय मिलित्वा । रागाद् इ. काम इव, रागादिरिव वा। आत्मतन्त्रो बभूव ॥ अप्यङ्गसंचारकमनरागस मन्यमानः कवचं प्रविष्टान् । प्रागेव मन्ये शरणं प्रविष्टान्ध्यायंस्तनुत्रं कथमाददीत ।। ४४ ॥ अप्यनेति ॥ अङ्गरागमङ्गवर्णमेवाङ्गसंवारकमङ्गप्रच्छादकं मन्यमानोऽपि स सम. स्तोऽपि राजा कवचं प्रविष्टान् प्रागेव शरणं प्रविष्ठान प्राप्तान ध्यायन् सन् तनुत्र कवचं कथं आददीत गृहीयात् इति मन्ये जाने। चिरं निबद्धो नियमेन सोऽयं तीव्रासिधाराव्रतबद्धचित्तः । कर्तु यथेष्टं गुरुणा कथंचिदुपेक्षितः शिष्य इवोदियाय ॥ ४६॥ चिरमिति ॥ नियमेन वीरव्रतेन, परिमितकालगृहीतवतेन । तीव्रासिधारावतबद्ध- चित्तः तीने अतिधारारूपवते बद्धचित्तः, तीने असिधारातुल्यव्रते पद्धचित्तः । गुरुणा Dogices o, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१८१&oldid=234651" इत्यस्माद् प्रतिप्राप्तम्