पृष्ठम्:Dvisandhanam kavya.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ काव्यमाला। इत्यात्मदोषचकिता इव वेपमाना न्क्षणहष्टनष्टाः ॥४८॥ सस्ता इति ॥ इत्येवंप्रकारेणात्मदोषचकिताः स्वकीयापराधभीता इव वेपमानाः क. म्पमाना वेला वधूमिः क्षणद्दष्टनष्टाः क्षणं पूर्व दृष्टा पश्चान्नष्टा अभवन् ॥ तथा वेषं तेषां कुसुमरचितं कुङ्कमचितं दधानोदाराणां दिशिदिशि जनानां प्रियतमम् । चिरं चक्रे शङ्कामिव हृदि परासङ्गजननी नदीवाहो वेला त्वरितगतिरीशस्य सरिताम् ॥ ४९॥ तथेति ॥ तथा तेनैव प्रकारेण कुसुमरचितं कुङ्कमचितं प्रियतम वेषमलंकारं दधाना धरन्ती, सरितामीशस्य पत्युः समुद्रस्य वेला । त्वरितगतिस्त्वरिता गतिर्यस्यास्ताहर नदीव उदाराणां तेषां जनानां हृदि परासङ्गजननी परेषामासहं जनयति तां शङ्कामिव । अहो आश्चर्य चक्रे कृतवती ॥ भारतीये--वेषं दधानस्त्वरितगतिस्त्वरिता गतिर्यस्य सः, नदीवाहो गङ्गाप्रवाहः, वेलेव दाराणां स्त्रीणाम् । जनानां च ॥ शिखरिणी ॥ पुष्पं प्रवालमखिलं स्ववनस्य कोपा. त्सर्वस्वमाहृतमुपाहरतीव भूयः । भूपा विहृत्य पयसि द्रुतमित्यपेयुः के वान्यदुत्सुकधियोऽन्यधनं जयन्तः ॥ १०॥ इति धनंजयकविविरचिते राघवपाण्डवीयापरनानि द्विसंधानकाव्ये धनंजयाङ्के जल- . क्रीडावर्णनं नाम पश्चदशः सर्गः समाप्तः। पुष्पमिति ॥ भूपा राजानः पयसि स्ववनस्य स्वारण्यस्याहतं भूपैरानीतं पुष्पं प्रवा- लमखिलं सर्वस्वं कोपादुपाहरत्याददतीव सति इति पूर्वोक्तप्रकारेण विहृत्य क्रीडित्वा . द्रुतं शीघ्रमपेयुनिसृतवन्तः । अन्यधनं जयतोऽन्यदुत्सुकधियोऽप्यस्मिनुत्सुका धीर्येषा तादृशः के भवन्ति । न केऽपीत्यर्थः । रावणजरासंघधनं जेतुमागता न बनधनं जिगी- पन्तीति भावः । वसन्ततिलकावृतम् ॥ इति श्रीदाधीचजातिकुद्दालोपनामकश्रीछोटीलालात्मजश्रीषदरीनाथविरचितायां द्विसं- धानकाव्यटीकायां कुसुमावचयजलक्रीडानिरूपणो नाम पञ्चदशः सर्गः । षोडशः सर्गः। ततः समीपे नवमस्य विष्णोः श्रुत्वा बलं संभ्रमदष्टमस्य । क्रुधा दशन्नोष्ठमरिं मनःस्थं गाढं निघत्सन्निव संनिगृह्य ॥ १ ॥ Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१७२&oldid=234641" इत्यस्माद् प्रतिप्राप्तम्