पृष्ठम्:Dvisandhanam kavya.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ सर्गः] द्विसंधानम् । तइंशभीताधररागसङ्गादिवारुणाक्षस्तदुपाश्रयेण । पिङ्गयो वोरुगतधूमराजिनभ्राडिवेन्द्रायुधमध्यकेतुः ॥२॥ हस्तं कृपाणे हृदयं स्थिरत्वे दृष्टिं सपत्ने च समादधानः ।। सदात्मतत्रोऽप्युदितस्य मन्योरालुच्यमानाङ्ग इव स्यदेन ॥ ३॥ अलवितव्योमगधार्यभूमि प्रियामिवाशंसुरयं स राजा । चित्तेनलङ्कामवशाप्रकोपव्याज वहनराजगृहान्निरैयः ॥ ४॥ (कुलकम्) तत इत्यादि । ततो राघवपाण्डवबलप्राप्त्यनन्तरं सोऽयं राजा रावणो नवमस्य नवा मा लक्ष्मीर्यस्य । पूरणार्थान्तत्वेन विरोधः । अष्टमस्याष्टानां पूरणस्य विष्णोर्लक्ष्मणस्य समीपे संभ्रमद् विचरत् नवं वा वलं श्रुत्वा क्रुधा कोपेनौष्ठं दशन् मनःस्थमारे गाढमत्यर्थे संनिगृह्य निपीड्य जिघत्सन्नत्तुमिच्छन्निव तद्देशभीताधररागसङ्गाद् तस्य देशाद्देशनाद् भीतस्याधरे रागस्य सादिवारुणाक्षो अरुणे अक्षिणी यस्य ताक, तदुपाश्रयण तयोरक्ष्णोरुपाश्रयेण पिङ्गयोः पिङ्गलवर्णयोध्रुवोर्मध्ये, इन्द्रायुधमध्यकेतुरिन्द्रायुधस्य मध्ये केतुर्यस्य ताइक्, नभ्राण मेघ इवोद्गतधूमराजिः समुत्पन्ना धूमश्रेणियस्य तादृक्, कृपाणे हस्तं स्थिरले स्थैर्ये हृदयं सपने शत्रौ दृष्टि समादधानः, सदा आत्मतत्रः खतन्त्रोऽपि समुदितंस मन्योः क्रोधस्य स्यदेन जवेन आलुच्यमानाम इव, अलहितव्योमगधार्यभूमिम् अलहितैरजेयोमगैः खेचरै राक्षसैार्या रक्षणीया भूमिर्यस्यास्तां लङ्कां चित्तेन प्रिया- मियाशंसुः प्रशसन्, अवशात्पारतच्यान् प्रकोपव्याज वहन् सन् राजयहाद् राजमन्दिरात निरैयः निर्गतवान् ॥ भारतीये-सोऽयं राजा जरासंधः, अस्य नवमस्य नवसंख्यापूर- मस्य विष्णोर्नारायणस्य संभ्रमदष्टं संभ्रमप्रस्तं बलम् । अलवितव्योऽजय्यः । मगधार्य. भूमि वन्दिस्वामिस्थिति प्रियां प्रीतिविषयाम् आशंसुरिव, कामवशात् प्रकोपव्याजम् अनलं वर्षि चिते वहन् । सर्गेऽस्मिन्वृत्तमुपजातिः ॥ समागधैयाँऽनुगतः सहायैरक्षोदवैराकुलिताखिलाशः। रणाजिरं विश्वजगद्विनाशं यमः खयं कर्तुमिवावतीर्णः ॥ ५॥ समागेति ॥ समागधैर्यो मां लक्ष्मी गच्छता धैर्येण सहितो रक्षादवै राक्षसदावानलैः सहायैरनुगत आकुलिताखिलाशो व्यग्रीकृतसमस्तदिग्, रणाजिरं सङ्ग्रामभूमिम् । विश्वज- गद्विनाशं कर्तुम् इव । स्वयमात्मना यमः काल इव । अवतीर्णः ॥ भारतीये-यो मा- गधैर्वन्दिजनैः सहायमित्रैश्वानुगतः, स जरासंधः अक्षोदवैराकुलिताशो न क्षोदो यस्य तेन वैरेण आकुलिता अखिलानामाशा वाञ्छा येन सः । यद्वा आनारायणात् क्षोदो यस्य तेन वीरसमूहेन आकुलिता अखिलाशाः समस्ताभिलाषा यस्य सः ॥ सङ्ग्रामरकं शवनृत्यरम्यं सुराः समागच्छत पश्यतेति । निमन्त्रणायेव निकाय्यमेषामापूर्य तूर्य विरुतं विचक्रे ॥ ६ ॥ Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१७३&oldid=234643" इत्यस्माद् प्रतिप्राप्तम्