पृष्ठम्:Dvisandhanam kavya.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० काव्यमाला। अधिजलमधिकुङ्कुम बभौ करधृतमङ्गनया स्तनद्वयम् । कनककलशयुग्ममम्भसि स्मरमभिषेक्तुमिवावतारितम् ॥ ३९ ॥ अधीति ।। अङ्गनया करधृतं हस्ते धृतमधिकुङ्कुमं प्रचुरकुङ्कुमचर्चित स्तनद्वयं कुचयुग- मधिजलं जलमध्ये । स्मरमभिषेक्तुमम्भस्यवतारितं कनककलशयुग्ममिव । बभौ ॥ करतलपिहितं प्रियाननं प्रियमृदुसिक्तविषक्तशीकरम् । षक्ताः शीकरा जलकणा यत्र तत् करतलपिहितं हस्ततलपच्छादितं प्रियाननं कान्तान- नम् । उल्लसद्विरलतुषारजलं मुकुलितं पद्ममिव । व्यराजत । निचितमलकमल्पमौक्तिकप्रथितमिवाम्बुकणै तभुवः । नयनबहलपक्ष्म चारुचप्रणयमबाष्पविशङ्कितप्रियम् ॥ ४१॥ निचितेति । नतभ्रुवो निचितं संभृतमलकमम्बुकणैरल्पमौक्तिकप्रथितमिव च पुनर्नय- नपहलपक्ष्म प्रणयजवाष्पविशङ्कितप्रियं स्नेहोद्भवाश्रु विशङ्कितवल्लभं सदरुचद् वभौ ।। किमु विलुलितकुङ्कुमावलि किमधिकुचं नखरक्षतं नवम् । विमतिरिवि विपक्षसेवनेन च कुपितोऽकुपितोऽबलाजनः ॥ ४२ ॥ किमिति ॥ अवलाजनोऽकुपितोऽप्यधिकुचं कुचयोरुपरि विलुलितकुङ्कमावलि किमु, तथा नवं नखरक्षतं किम् इति विमतिः शङ्कितमना विपक्षसेवनेन कुपितोऽभूत् ॥ सपदि न तदवेयुषी वधूरधिदयितायतबाहु विप्लुता । रमणसलिलयोः किमीयतः पुलकितमङ्गमिति प्रसङ्गतः ॥ ४३ ॥ सपदीति ॥ वधूरघिदयितायतबाहु दयितस्यायतबाहोरुपरि विप्लुता तरन्ती सती सपदि शीघ्रं रमणसलिलयोर्मध्ये किमीयतः कस्य प्रसङ्गतस्तदङ्गं पुलकितमिति नावेयुषी ज्ञातवती ।। परिहृषितमुखं कुचद्वयं दधदधरेऽपि बभूव पाण्डुता । श्थितमथ विलेपनाञ्जनं निधुवनमन्वहरज्जलप्लवः ।। ४४ ॥ परीति ॥ कुचद्वयं परिहृषितमुखं रोमाञ्चकञ्चकिताननं दधदस्ति, अधरेऽपि पाण्डुता ताम्बूलविरहो बभूव, विलेपनाञ्जनं श्लथं शिथिलं जातम् । तथा च जलप्लयो जलतरणं नि- धुवनं सुरतमन्वहरदन्वकरोत् ॥ जलपरिचयैरुत्सूत्रत्वं गतः परिघट्टितः शिथिलितगुणो मुक्ताहारोऽप्यधोगतिमागतः । Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१७०&oldid=234638" इत्यस्माद् प्रतिप्राप्तम्