पृष्ठम्:Dvisandhanam kavya.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ सर्गः] द्विसंधानम् । १५९ भिवृक्षविशेषैश्चिता आयतिदैर्घ्यं यत्र तादम् वनम् । इलां पृथ्वी समकररुचि समो हानि- वृद्धिरहितः करः सिद्धायो यस्यां तादृग् रुचिर्यस्मिस्ताम् यथा स्यात्तथा रक्षतां हरीणां यादवानां समुद्रवा समुत् सा प्रियजनता सहर्षो रखो यस्यां सा हर्षरवण सहिता वा रतये धुनीपयो गङ्गाम्भोऽगात् ॥ पयसि भयमवेत्य योषितां दयितजनोऽभवदग्रतः सरः । कुतपनियतविक्रमाः स्त्रियः क न विधुरे पुरुषः पुरःसरः ॥ ३४ ॥ पयसीति । दयितजनो योषितां पयसि भयमवेत्य ज्ञात्वा अप्रतः सरोऽग्रेसरः अभवत् । त्रियः कुतपनियतविक्रमा उदुम्बरकनियमितचरणा भवन्ति । पुरुषो विधुरे वैकल्ये सति क पुरःसरो न भवति ॥ प्रणिपतदिव वारि पादयोस्त्रसदवलग्नमिवापि जङ्घयोः । शिथिलयदिव लोलमंशुकं प्रिय इव चाटुमुपानयद्वधूः ।। ३५ ॥ प्रणिपतेति ॥ वारि जलं पदयोश्चरणयोः प्रणिपतदिव, जक्योरवलममपि त्रसद्विभ्य- दिव, लोलमशुकं शिथिलयदिव प्रिय इव वधूः कामिनीः चार्ट चाटुकारमुपानयत प्रापयत् ।। तुलितरसनमौपनीविकं बलिभमिवाम्बु बभूव नाभिगम् । त्रिवलिषु पुनरुक्तवीचिकं बहुभवमेत्यबलावसङ्गतः ॥ ३६ ॥ तुलितति ॥ अम्बु जलमापनीविक नीविसमीपगं सत् तुलितरसनं तुलिता रसना 'एक- यष्टिभवेत्काशी, मेखला मुखसंयुता । रसना सर्वरनाङ्गा करोति कटिसूत्रकम् ॥' इत्यु- कलक्षण कटिसूत्रं येन ताहग, नाभिगं सत् वंलिभं वलिभूषणमिव, पुनरुक्तवीचिकं द्वि. गुणिततरङ्गकं सत् त्रिवलिषु वलित्रये बभूव । हि यतः अषलावसङ्गतः कामिनीसंयोगतो बहुभवमनेकधा संसृतिमेति प्राप्नोति ॥ . अभिमुखमवलम्बितोऽम्बुना निचितकुचद्वयसं प्रियाजनः। स्तनमधनभरेण पीडितः स्फटिकमयीमिव भित्तिमाश्रितः ॥ ३७ ॥ अभीति ॥ अन्ना जलेन स्तनजघनभरेण पीडितः, स्फटिकमयीं स्फटिकनिर्मिती मित्तिमाश्रित इव प्रियाजनोऽभिमुखं संमुखं यथा स्यात्तथा निचितकुचद्वयर्स संभृतस्तन- प्रमाणं यथा स्यात्तथावलम्बितः ।। परिचितमभिगम्य लीलया कुचभुजयोर्विशतान्तरं मिथः । परिषजदिव योषितो जलं चलवलिबाहुयुगेन निर्बभौ ॥ ३८ ॥ परीति । जलं लीलयानायासैनाभिगम्य परिचितं संस्तुतं कुचभुजयोरन्तरं विशता चलवलियाहुयुगेन तरलतरभुजद्वयेन योषितः कामिनीः परिषजदालिङ्गादिव निर्वभौ ।। Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१६९&oldid=234637" इत्यस्माद् प्रतिप्राप्तम्