पृष्ठम्:Dvisandhanam kavya.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ सर्गः] द्विसंधानम्। प्रदेशे मुहुर्वारंवार मन्त्रं गुप्तभाषणमुपैति, परमपि मार्गगामिनमपि परिवृत्त्य आवृत्य नाधेत याचेत 'सा मस्प्रिया यदि दृष्टा तदा दूत' इति पृच्छेत् । सपदि शीघ्रमसुषु प्राणेषु वसुषु द्रव्येषु च व्ययं व्यभुते । तेन किं तद् न कृतम् । अपितु सर्वम् ॥ सुहृदयमसुदेयं प्रेम मेऽन्योन्ययोगात्सहनमुपकरिष्यत्यायतं हन्त यस्मिन् । खयमुपनयमानं तत्कदा भावि तादृन्दिनमनुदिनमेवं ध्यायति त्वां नरेन्द्र:४२ सुहृदयमिति ।। यस्मिन्दिने, असुदेयमसवो देया यत्र तत् सहजे नैसर्गिकमायतं दीर्घ प्रेम बेहोऽन्योन्ययोगात् परस्परसंबन्धात् मे सुहृदयमुपकरिष्यति । स्वयमात्मनो- पनयमानं प्रढौकमान तादृक् तद् दिनं कदा भविष्यति । एवमनुदिनं लां नरेन्द्रो ध्या- यति ॥ मालिनीवृत्तम् ॥ सेनां विष्णोरथरयमयीं धीरकाकुस्थनादा नागैाप्तामिह समकरैर्दिगतैरीक्षितासे। कल्पान्ताब्धिप्लुतिमिव महाभीममत्स्यध्वजौघां संगन्तासे त्वमचिरमतस्तेन पद्मेश्वरेण ॥ ४३ ॥ सेनामिति ॥ त्वमथ स्यमयी वेगमयी, धीरकाकुस्थनादां धीरः काकुस्थयो रामल- क्ष्मणयोर्नादो यस्यां, दिग्गतैदिक्षु प्रवृत्तः, समकरैः सशोभशुण्डादण्डै गैदिग्गजैाप्ताम् । एतेन कृत्लधरामण्डलाच्छादिनी, महाभीममत्स्यध्वजौघां गरिष्ठभयानकमीनाकरालम्बस- मूहां विष्णोर्लक्ष्मणस्य सेनाम् । रथस्यमयी रथस्येव रयो हेतुर्यस्यास्तां, धीरकाकुस्थनादां धीरस्य गम्भीरस्य कस्य जलस्य आकुस्थ: कुंपृथ्वी व्याप्य तिष्ठन् नादो यस्यास्ता, सम- करैर्मकरसहितै गैरम्भोगजैाप्तां महाभीममत्स्यध्वजौघां महान्तो भीमा भयानका मत्स्या ध्वजौघा यस्यास्ताम् , कल्पान्ताब्धिप्नुतिं प्रलयकालजलधिग्लवमिव । ईक्षितासे । अतः कारणात् तेन पप्रेश्वरेण रामसंबकेश्वरेणाचिर शीघ्रमेव संगन्तासे भारतीये-रथरयमयी स्य- न्दनवेगप्रधुरी धीरकाकुत्थनादो धीरः काकुस्थो विरुद्धाभिप्रायेण वक्रोक्तिस्थो नादो यस्या ता, समकरैः समानशुण्डः, महाभीममत्स्यध्वजौघां महान् भीमो वृकोदरो मत्स्यो विरा- टाख्यराजश्व ध्वजौघ आलम्बपकिर्यत्र तां पोश्वरेण पद्मापतिना कृष्णेन ॥ मन्दाका. न्तावृत्तम् ॥ इसीदमभिधाय तां नयपरोऽयमाश्वासय- न्प्रदाय नृपमुद्रिकासमुपलक्षितं प्राभूतम् । मुदायत पति रिपोः कुलधनं जयन्तं विधो- स्तथैति हि कृतार्थवत्रमुपपौर्णमासं महः ॥ ४४ ॥ इति धनंजयकविविरचिते धनंजयाके राधवपाण्डवीयाफ्रनानि द्विसंधानकाव्ये हनुमन्नारायणदूताभिगमनं नाम त्रयोदशः सर्गः समाप्तः । Digitized b; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१५३&oldid=234611" इत्यस्माद् प्रतिप्राप्तम्