पृष्ठम्:Dvisandhanam kavya.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ काव्यमाला। इतीदमिति ॥ नयपरो नीतिपरोऽयं हनुमान् इति पूर्वोक्तप्रकारेणेदमभिधाय नृपमुद्रि- कासमुपलक्षितं राममुद्रिकामिधं प्राभृतमुपायनं प्रदाय, तां जानकीमाश्वासयन् सन् रिपोः कुलधनं जयन्तं पति राम मुदा हर्षेण आयत । तथा उपपौर्णमासं पौर्णमासीसमीपोद्भवं विधोश्चन्द्रस्य महस्तेजः कृतार्थवर्क कतार्थताव्यशकवदनं हि निश्चये एति प्राप्नोति ॥ भा- रतीये-नृपमुद्रिकासमुपलक्षितं राजकीयमुद्रामुद्रितं प्राभूतमुपायनं तां काननस्यकामिनीम्, पति चक्रपाणिम् ॥ पृथ्वीछन्दः ॥ इति श्रीदाधीचजातिकुहालोपनामकरीछोटीलालात्मजश्रीबदरीनाथविरचितायां द्विर्स- धानकाव्यटीकायां हनुमन्नारायणदूताभिगमनकथनो नाम त्रयोदशः सर्गः। चतुर्दशः सर्गः। श्रीपार्थः सपदि हरिस्तथा सरामः सुग्रीवः सदसि समंप्रभाविराटः । निश्चित्य प्रकृतिषु शक्तिमभ्यमित्रं व्युत्तस्थुः प्रलयदवानला इवामी ॥१॥ श्रीपेति ॥ श्रीपार्थः श्रियं पाति तादृग् अर्थो यस्य लक्ष्मीरक्षाप्रयोजनः, हरिलक्ष्मणः, तथा स रामः प्रभाविराटः प्रभावी राटो ध्वनिर्यस्य स सुप्रीवो वानरराजः, अमी सपदि शीघ्रं सदसि सभायां समं युगपत् प्रकृतिषु स्वाभ्यमात्यादिषु शक्ति निश्चित्य अभ्यमित्रं अमित्रं शत्रु लक्षीकृत्य प्रलयदवानला इव व्युत्तस्थुः ॥ भारतीये-श्रीपार्थों लक्ष्म्युपल- क्षितोऽर्जुनः, हरिः कृष्णः, सरामो बलभद्रयुतः, सुग्रीवः शोभनप्रीवः, समंप्रभाः समं कदाप्यम्लानं प्रकृष्टं भाति सः । सममित्यव्ययम् । विराटः॥ सर्गेऽस्मिन्प्र_षणी वृत्तम् ।। स्कन्धस्था मदकरिणः प्रयाणभेरी दध्वान प्रतिसमयं निहन्यमाना । अत्युच्चैः पदमधिरोप्य मान्यमारान्यक्कारं क इह परैः कृतं सहेत ॥ २ ॥ स्कन्धस्थेति ॥ मदकरिणो मत्तमातङ्गस्य स्कन्धस्था प्रयाणमेरी निहन्यमाना सती मतिसमयं प्रतिक्षणं दध्वान ध्वनितवती । कः पुरुषोऽत्युञ्चैरुश्चतरं पदं मान्यं जनमधि- रोप्य नीत्वा आरात्- पश्चादिह लोके परैः शत्रुभिः कृतं न्यकारं सहेत । अपितुन कोऽपि आरावं दिशिदिशि तं निशम्य तस्या रोमाञ्चैः परिहृषितैस्तनुर्नृपाणाम् । अम्भोदप्रथमरवोत्थरत्नसूचिः संरेजे स्वयमिव सा विदूरभूमिः ॥ ३ ॥ आरावमिति ॥ नृपाणां सा तनुस्तमारावं दिशिदिशि निशम्य श्रुत्वा परिहृषितरत्या- नन्दसमुत्यितै रोमाञ्चैः, स्वयमात्मना, अम्भोदप्रथमरवोत्थरलसूचिरम्भोदस्य प्रथमरवा- दुत्था रलसूचिर्यस्यास्तादग्विदूरभामिरिव । संरेजे शुशुभे ॥ रागादेः सह वसतोऽपि तापवृत्तेयः स्वस्मिन्नवधिरहो न कस्यचित्सः । भूपानां रिपुमभिपश्यतामिवोमं यत्कोपे स्फुरति रसान्तरं न जज्ञे ॥ ४ ॥ Dogticed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१५४&oldid=234612" इत्यस्माद् प्रतिप्राप्तम्