पृष्ठम्:Dvisandhanam kavya.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। रासंधस्य प्रकृतीनां स्वाम्यमात्यादीनां विरागं विशिष्टानुरागं ज्ञात्वा पुरि नगर्यो समस्त कृत्य हस्तकृत्य हस्तगतं कृत्वा तस्या नगर्याः पारं प्राप्य रम्यं मनोहरं वनमागादागत- वान् ॥ मत्तमयूरं छन्दः॥ उपवनमभिरामवल्लभां स वनजनेत्ररुचिं निरूपयन् । खपतिगुणविशेषरजितामुपलभते स सतीं वचोहरः ॥ ३७ ॥ उपेति ॥ स वचोहरो दूतो हनुमान् उपवनम् अभि अविद्यमानमयं यथा स्यात्तथा निरूपयन् पश्यन् वनजनेत्ररुचिं कमलदललोचनकमनीयां स्वपतिगुणविशेषरञ्जितां रा. मगुणाहादितां रामवल्लभांजानकीम् उपलभते स्म ददर्श ॥ भारतीये-वचोहरः श्रीशैलः अभिरामवल्लभां कमनीयकालिनीम् ॥ अपरवक्रम् ॥ पथिपथि परिरक्षतो दिगन्तान्दशमुखरागवतो वनान्तपालान् । उपशमफलया स विद्यया तां नयविदवोचत मोहयन्नितीदम् ॥ ३८॥ पथीति ॥ नयवित् स हनुमान् , पथिपथि मार्गेमार्गे, दिगन्तान् दिशा सीनः, परिर- क्षतः समन्ततः पालयतः, दशमुखरागवतो रावणे प्रीतिमतः, वनान्तपालान् उपशमफ- लया विद्यया मोहयन् ता जानकीम् इति वक्ष्यमाणप्रकारेण इदमनुपदवक्ष्यमाणम् , अवो- चत उक्तवान् ॥ भारतीयेस श्रीशैलः, मुखरागवतः मुखेष्वारक्तिमानं दधानान् दश दिगन्तान् परिरक्षतः तां कामिनीम् ॥ पुष्पितामावृत्तम् ।। तवैव संदर्शनसंकथाः कथास्त्वयि प्रसक्ताः श्रुतयो दिवानिशम् । त्वयैव वाञ्छाः सहवासतत्परा विना त्वदुर्वीपतिरुन्मनायते ॥ ३९ ॥ तवेति ॥ हे भद्रे, कथा वार्ताः तवैव संदर्शनसंकथाः संदर्शनं संकथयन्ति तादृश्यः, श्रतयः श्रोत्राणि दिवानिशं त्वय्येव प्रसक्ताः त्वद्विषयकवार्ताश्रवणोत्सुकाः, वाञ्छा इच्छा त्वयैव सहवासतत्परा एकत्रावस्थानसंधिन्यः प्रवर्तन्ते । त्वत् त्वत्तो विना उर्वीपती राम उन्मनायते खेदमनुभवति ॥ भारतीये-उर्वीपतिर्गरुडध्वजः ॥ वंशस्थम् ॥ सुनिचितमपि शून्यमाभासते परिजनविभवोऽपि सैकाकिता। अरुचिरमवदस्य लक्ष्मीसुखे त्वदनभिगमनेन रिक्तं मनः ।। ४० ॥ सुनिचितमिति ॥ अस्य रामस्य कृष्णस्य वा त्वदनभिगमनेन भवदप्रात्या सुनिचित संभृतमंपि शन्यम् , परिजनविभवः परिवारजनसंपद् अपि स एकाकिता, आभासते । लक्ष्मीसुखेऽचिरप्रीतिः, मनो रिक्तम् , अभवत् ॥ प्रमुदितवदना वृत्तम् ।। अनुरहसमुपैति मन्त्रं मुहुः परमपि परिवृत्त्य नाधेत सः । असुषु वसुषु च व्ययं व्यश्नुते सपदि तव कृते न किं तत्कृतम्॥४१॥ अनुरेति ॥ स रामो नरेन्द्रो वा, तव कृते त्वदर्थमनुरहसं जनकोलाहलोज्झिते एकान्त- Digitized to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१५२&oldid=234616" इत्यस्माद् प्रतिप्राप्तम्