पृष्ठम्:Dvisandhanam kavya.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ सर्गः] द्विसंधानम् । उक्तेनेति ॥ अथवा पौनापुनिकेनोक्तेन पुनःपुनरुक्त्या किम् । उर्वी विकर्षन्ती प्रल- याम्पुराशेः प्रलयसमुद्रस्य वेलामिव चमू विकर्षन्तं तं हरि स्वमे अवेक्ष्यमाणस्त्वं समक्ष प्रत्यक्षं पश्यसि द्रक्ष्यसि ॥ उपजातिः॥ समातुलानीतनयैः खबन्धुभिः प्रभो जयत्येष निहत्य ते बलम् । समेघ्यलंकारचितं पुरस्तव स्थिरं वनश्चेत्कुरुदेशमीशिता ॥ ३३ ॥ समेति ॥ हे प्रभो, एष हरिलक्ष्मणः, समातुलानीतनयैः समः साधारणः, अतुलोऽनु- पमः आनीत उपनीतो नयो यैस्ताग्भिः स्वबन्धुभिः बिभीषणादिभिः सह ते तब बलं सैन्यं निहत्य जयति जेष्यति सर्वोत्कर्षेण वर्तिध्यते । हे मेध्य, चैयदि तव लङ्कारचितं लादिदर्शनादिभोग्यभोगाभिलाषकं मनः स्थिरं कार्य तर्हि कुरु । सलक्ष्मणः तव पुरः अग्रे देशं लाख्यम् ईशिता ऐश्वर्येण पालयिष्यति ॥ भारतीये--एष वासुदेवस्ते तव बलं निहत्य समातुलानीतनयैः युधिष्ठिरादिभिः सह स्ववन्धुभिः सह जेष्यति । अलंकार- चितमलंकाराभिलाषुकं तव मनः स्थिरं समेधि संभावय सकुरुदेशम् ईशिता । वंशस्थम् ॥ नयस्यावयस्य व्यपनयमुखेन स्तुतिकृती जनस्यापि शान्तिर्भवति वसतिस्तस्य भविता । कथंकारं ब्रीडां पतसि पतिदेवत्यचरिते सुरापाने मौनव्रतमिव तदेतत्प्रहसनम् ॥ ३४ ॥ नयस्येति ॥ अवद्यस्य निन्द्यस्य नयस्य नीतेर्व्यपनयमुखेन निराकरणमुखेन स्तुति- कृतौ स्तुतिकरणे जनस्य प्राकृतस्यापि क्षान्तिः क्षमा भवति ॥ लंच ब्रीडां विहाय पतिदेवत्यचरिते पतसि चेत् तस्य तव वसतिवासः कथंकारं कथं भविता भविष्यति ॥ तदेतत् भावकं कर्म सुरापाने मौनव्रतमिव प्रहसनमस्ति ॥ शिखरिणी ॥ अन्तर्वहिः संप्रति कालरात्रौ तवोद्यतायां हरिशस्त्रपातैः । लब्धश्चिरस्येति तनोतु तिर्यम्ज्योत्स्नामकालेऽपि यमाट्टहासः ॥ ३५ ॥ अन्तरिति ॥ हरिशस्त्रपातैलक्ष्मणमुक्तमार्गणपातैः, वासुदेवशस्त्रपतनैश्च । तव राव- णस्य जरासंघस्य वा । अन्तर्बहिः सर्वत्र कालरात्रावुद्यतायां सत्यां सांप्रतं चिरस्य चि. रेण लब्ध इति हेतोर्यमाहासोऽकालेऽप्यनवसरेऽपि तिर्यग् ज्योत्स्ना चन्द्रिका तनोतु । उपजातिः॥ इत्युक्त्वासौ तस्य विरागं प्रकृतीनां नानाभाषावेषलिपिज्ञैरवसः । ज्ञात्वा हस्तेकृत्य समस्तं पुरि कृत्यं तस्याः पारंप्राप्य च रम्यं वनमागात् ॥३६॥ इतीति ॥ असौ हनुमान् श्रीशैलश्वेत्येवंप्रकारेणोक्त्वा निगद्य नानाभाषावेषलिपिज्ञैरने- कविधान् भाषाः संस्कृतयावन्यादीः, वेषान् कौलिकसंन्यास्याद्याकारान् , लिपीन क- पोटद्रविडावनादिदेशोद्भवाक्षराकारान्, जानद्भिः, अवसर्दूतैश्चरैस्तस्य रावणस्य ज- Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१५१&oldid=234610" इत्यस्माद् प्रतिप्राप्तम्