पृष्ठम्:Dvisandhanam kavya.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० काव्यमाला। इति समरुतः शत्यास्तोक पदं पृथुसंपदः शमनिरतया वृत्त्या श्रेयस्तरां स्वपतेः श्रियम् । परिणमयितुं दूतोऽवोचत्प्रसह्य रिपुक्षिपां स न हि सचिवः खामिखार्थे भनक्ति भरेषु यः ॥ २९ ॥ इतीति ॥ पृथुसंपदः पृथ्वी संपयस्याः सकाशात्तस्याः शक्याः सामर्थ्यस्य पदं स्थानम् स लोकप्रसिद्धो मरुतो वायोस्तोकमपत्यं हनूमान् दूतः रिपुक्षिपां शवधिक्षेपं समनिरतया उपशमप्रधानया वृत्या प्रसत्य प्रमृष्य स्वपते रामस्य श्रेयस्तरां श्रियं लक्ष्मी परिणमयितुम् इति वक्ष्यमाणप्रकारेण अवोचत् । हि यतों यो भरेषु स्वामिकार्य भनक्ति स सचिवो न ॥ भारतीये-शस्या सामर्थेन पृथुसंपदो महासंपत्तेः । अस्तोकमन्यूनम् । पदं स्थानम् । समरुतः समध्वनिः । दूतः ।। हरिणीवृत्तम् ॥ दशाननोद्दीपनमात्रहेतोस्तत्सज्जरासंधरयाहतस्य । दीपस्य गेहे स्फुरतस्तवापि स्नेहच्युतस्य ज्वलनं कियद्वा ॥ ३०॥ दशेति ॥ हे दशानन, उहीपनमात्रहेतोरुद्दीपनमात्रमेव हेतुर्यस्य तादृशः, धरया पृथ्व्या भारतस्य,लेहच्युतस्य प्रीतिरहितस्य नितरां कठोरहृदयस्य,गेहे स्वमन्दिरेस्फुरतो विज़म्भमा- णस्य तव समारासं सीदति क्लेशं करोतीतिसद् द्वेषः, तस्माजातेन राशब्देन । ('आतो धातोः' इत्यनेन क्विवन्तरैधातोराकारलोपे तृतीयान्तम् ।) आस अधिक्षेपो यत्र ज्वलनकर्मणि यथा स्यासथा तत् ज्वलनं कियत् कियत्कालम् । वा यथार्थे दशाननोहीपनमात्रहेतोर्दशाया वर्तिकाया आननेन मुखेनोद्दीपनमात्रे प्रज्वलनमाने हेतोः, मेहच्युतस्य तैलादिरहितस्य, अत एव सबरासंघरयातस्य सता जराया अस्तोन्मुखतामन्दतेजःपरिणतेरासंधः सम. न्ततो योगो यस्य तादृशा रयेण वेगेनाहतस्य तैलक्षयवशाच्छिखाप्रकम्पवद्वेगेन कटाक्षि- तस्स, गेहे स्फुरतो दीपस्यापि तज्वलन कियत् ॥ भारतीये-हे जरासंघ, दशाननोद्दीप- नमात्रहेतोर्दशायाः शुभपाकस्यानने प्रारम्भे एव उद्दीपनमात्रकारणस्य । रयाहतस्य वेगा- विष्टस्य ॥ उपजातिः ॥ अपि दूरमपैष्यती प्रदेशं यदि वा विश्रमितुं त्वयि स्थिता । न वधू वरलिप्सया ब्रजन्तीमिव लक्ष्मीमवरोद्भुमर्हसि त्वम् ॥ ३१ ॥ अपीति ॥ यद्यपि लक्ष्मीदूरं प्रदेशम् , अपैष्यती अतिक्रमिष्यन्ती वा इव विश्रमितुं श्रम दूरीकर्तुं त्वयि स्थिता । तथापि वरलिप्सया ब्रजन्ती वधूमिव लक्ष्मी जानकी रा- ज्यलक्ष्मी वावरोटु त्वं नाईसि ॥ उक्तेन पौनापुनिकेन किं वा वेलामिवोर्वी प्रलयाम्बुराशेः । चमू विकर्षन्तमवेक्षमाणः स्वप्ने हरिं पश्यसि तं समक्षम् ॥ ३२ ॥ Digiced by Google +

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१५०&oldid=234608" इत्यस्माद् प्रतिप्राप्तम्