पृष्ठम्:Dvisandhanam kavya.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० सर्गः] द्विसंधानम् । रसमिव दण्डगर्म दण्डप्रधानं दण्डान्तास्थमपि चित्तहारि हृदयंगमं वचो वाक्यम् भ- न्यदा अन्यस्मिन्काले अवदत् ॥ सर्गेऽस्मिन्त्रयोद्धता स्वागता च वृत्तम् ॥ श्रीमतां श्रुतवतां कुलजानां त्वय्युपस्कृतमिदं नतु दृष्टम् । सत्यमुन्नतिमतां हि गुरूणां मेरुरेव विकृतो न कदाचित् ॥२॥ श्रीमतामिति ॥ धनवतां ज्ञानिः शुद्धान्वयानां मध्ये त्वयि, इदं प्रत्यक्षगोचरम्, उप- स्कृतं वैकृतं सत्यं न दृष्टम् । हि यतः उन्नतिमतां तुङ्गानां गुरूणां मध्ये मेरुरेव कदापि न विकृतः॥ यौवनं तव न वैकृतं गतं मन्मथोऽपि समभावमास्थितः । त्वं परं युवजरन्गुणानिमान्नापवादपदवीमजीगमः ॥ ३॥ . यौवनमिति ॥ हे युवजरन्, तव यौवनं वैकृतं न गतम्, मन्मथः कंदर्पोऽपि समभाव- म् आस्थितः । परं केवलं त्वम् इमान् गुणान् अपवादपदवीं न अजीगमः ॥ सद्गुणास्तव नृपैः सुगृहीतास्ते तथापि न भवन्ति भवद्वत् । तोयदाः खलु जलं जलधीनां बिभ्रतोऽपि न तथापि गभीराः ॥ ४ ॥ सद्गुणा इति ॥ नृपैः यद्यपि तव सद्गुणाः सुगृहीताः, तथापि ते राजानः, भवद्वत् न भवन्ति । जलधीनां जलं बिभ्रतोऽपि तोयदा गभीरा न स्युः ॥ त्वं हिमाद्रिरपि तां सरस्वती वं रविश्च कमलाकरग्रहम् । त्वं विधुश्च भुवनाभिनन्दथु धत्थ इत्थमपरो न कश्चन ॥ ५ ॥ स्वमिति ॥ सरस्वती वाणी नदीं च, कमलाकरप्रहं लक्ष्मीहस्तग्रहणं पद्माकरशोषणं च, भुवनाभिनन्दथु लोकाभिनन्दनम् ॥ आश्रयस्त्वमसि सर्वलघूनां सेविता भवसि सर्वगुरूणाम् । छन्दसस्तव च वृत्तिमुदारां वर्णयन्ति कवयश्चरितेषु ॥ ६ ॥ आश्रय इति ॥ लघवः सरलाकृतय ऐकमात्रकाः निराश्रयदीन दुःस्थितभाग्यदूरवर्ति- नश्च, गुरवो वक्राकृतयो द्विमात्रका सकलशास्त्रोपदेष्टारश्च, चरितेषु प्रस्तारोचितवार्तासु चरित्रेषु च ॥ दुर्जनेऽप्यनुनयः खभावतः सजने तु विनयो विशेषतः। तत्त्वमेवमभिमानिनं मम स्वामिनं किमिति नानुवर्तसे ॥ ७ ॥ दुर्जनेऽपीति ॥ अनुनयः प्रीतिः, विनयः प्रश्रयः । तत् तस्मात् एवं वक्ष्यमाणप्रकारेण अभिमानिनं मम स्वामिनं रामं नारायणं च किमिति कुतो नानुवर्तसे ॥ तादृशं प्रशमितं ननु वैरं तेन ते कृतमिदं न लघीयः । कंसमाहतमरि भुवि वित्तं नेह संस्मरसि स स्मरणीयः ॥ ८॥ Digitized b; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/११७&oldid=234577" इत्यस्माद् प्रतिप्राप्तम्