पृष्ठम्:Dvisandhanam kavya.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। तारशमिति ॥ मनु अहो तेन रामेण ते सुमीवस्य तादृशं ताराहरणप्रायम् वैरं प्रशमि- तम् । इदं लघीयो लघुतरं न कृतम्। स्वं भुवि वित्तं विख्यातं कमनिर्वचनीयं समाहत व्यापा- दितम् अरिं साहसगति न संस्मरसि । स शत्रुः स्मरणीयो भवता । एतेन 'न स संकु- चितः पन्था येन वाली हतो गतः । समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः॥' इति स्वाम्याझा प्रश्राविता ॥ भारतीये तेन कंसेन ते नारायणस्य तत् इदं वैरं प्रशमि लघीयो न कृतम् । तादृशमजय्यम् आइतं व्यापादितं कंसम् अरिम् ॥ श्रीवधूहरणवैरवन्धतः संप्रति भ्रुकुटिमङ्गुराननः । मा रुषन्मम पतिः समेत्य तं पादयोः पत समाहिताञ्जलिः ॥९॥ श्रविध्विति ॥ संप्रति श्रीवधूहरणवैरवन्धतो जानकीहरणवैरानुबन्धात् , भ्रुकुटिभारा- ननः मम पती रामः मा रुषत् कष्टो मा भूत् । अतः कारणात समाहिताअलिः कुड्मली- कृतकरः सन् त्वं तं रामं समेत्य पादयोः पत॥भारतीये-श्रीवधूहरणवैरबन्धतः लक्ष्मीरेव वधूः। मम पतिः जरासंधः । तं जरासंधम् ॥ अग्रतो भव शुभे पथि तिष्ठ प्रश्रयं भज जहीहि निजौजः । स्वामिनः श्रुतिपथातियिभावं प्रापय प्रियजनैः प्रियवार्ताम् ॥ १०॥ अप्रतविति ॥ स्वामिनो रामस्य अरासंधस्य च, प्रियजनैः सविधम्भजनैः ॥ थायमेवमुपकर्ण्य कर्णयोः कर्कशामकृशयोः कशोपमाम् । क्षोभमब्धय इवाययुस्तया वात्यया सदसि वानराधिपाः ॥ ११ ॥ वाचमिति ॥ वानराधिपाः सुप्रीवप्रभृतयः शाखामृगस्वामिनः, एवम् उक्तप्रकारेण अकृशयोाय्यात्मविषयग्रहणप्रवीणयोः कर्णयोः श्रोत्रयोः कर्कशां कठोरी कशोपमाम- श्वादिताडनरज्जूपमाम्, वाचम् उपकर्ण्य तया वार्तया 'वात्यया अब्धय इव' सदसि सभायां क्षोभम् आययुः ॥ भारतीये-नराधिपा बलभद्रादयो नरेन्द्रा अर्जुनस्वामिका वा॥ श्रीदशाहेकुलजाः किल केचिन्मानिनः स्थितिविघातभयेन। क्रोधवह्निशिखया स्वयमन्तर्दाहदूनहृदयाः क्लममायुः ॥ १२ ॥ श्रीदेति ॥ किल अरुची लोकोक्तौ वा, श्रीदशाईकुलजा श्रीदशा भाग्यावस्थाम् अ- हैन्ति ते कुलजा नलनीलादयः, श्रियोपलक्षितानां 'समुद्रविजय-अक्षोभ-तिमिरसागर- हिमवद-विजय-अचल-आरण-पुरण-अभिचन्द्र-वसदेव'-इति दशाणां कले जाताच॥ भोजकाः सुखनिबद्धसंपदः स्वेदसेकनिचिताङ्गयष्टयः । केऽपि कोपशिखिशान्तये बभुर्मुक्तवारिकलशा इवोपरि ॥ १३ ॥ भोजेति ॥ सुखनिवद्धसंपदः सुखसंयुक्तविभृतेः, भोजका मोक्तारः ॥ भारतीये--सुख- निबद्धसंपदः सुखाय संभृता संपवैस्ते, भोजका भोजकुलोत्पन्नयादवाः ।। Dogticed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/११८&oldid=234578" इत्यस्माद् प्रतिप्राप्तम्