पृष्ठम्:Dvisandhanam kavya.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। स दुरानमकोदण्डो मायावी विद्रुतो हतः । नरधोराहवे जातः कुले शूरोऽपि को जयेत् ॥ ४९ ॥ स दुरेति ॥दुरानमकोदण्डो दुःखेनानमनशीलः कोदण्डो यस्य समायावी ससाहसगति- विद्रुतः पलायितः सन् आहवे संख्ये हतः । रघो राज्ञः कुले जातः कः शूरः न जयेदपि तु अयेदेव ॥ भारतीये-दुरानमको दुःखेन जेतुमशक्यः । दण्डः सैन्यं हतः सन् विद्रुतः । नरघोराहवे नरस्यार्जुनस्य घोराहवे कुले जातः शूरोऽपि को जयेत् । अपि तु म ॥ केशवो बलदेवश्च न पौरैरेव केवलम् । प्रत्युद्यातस्तथा तेषां रोमाञ्चैः संचितैरपि ॥ ५० ॥ केशव इति ॥ केशवो लक्ष्मणो नारायणश्च, बलदेवो रामो बलभद्रश्च, तेषां पौराणाम्, संचितैः पुष्टिं गतः ॥ चलत्पताकामुहद्धतोरणां तामविक्षताम् । द्वारकां गोपुरद्वारैः किष्किन्धनगरीमिव ॥ ११ ॥ चलदिति ।। द्वारकाम् इव ॥ भारतीये-किष्किन्धनगरीम् इव ॥ सुग्रीवः सपदि पराक्रमेण कन्यां वैकुण्ठः परिहृषितः शुभां सुभद्राम् । कल्याणी स बहुमतो जितारयेऽस्मै दित्सन्नक्रमत तथा धनंजयाय ॥ १२ ॥ इति धनंजयकविविरचिते धनंजयाके राघवपाण्डवीयापरनानि विसंधानकाव्ये मायासु- प्रीवनिप्राइजरासंधवलविद्रावणं नाम नवमः सर्गः समाप्तः ॥ सुप्रीव इति ॥ पराक्रमेण प्रतापेन कुण्ठो मन्दः, परिहृषितः परिहृष्टः, बहुमतः बहूना नलनीलजाम्बवादीनां मतः स सुग्रीवः, जितारये जितोऽरियेन ताशे, अस्मै रामाय जयाय जयनिमित्तं शुभां शुभलक्षणाम् सुभद्रां शोभनानि भद्राणि कल्याणानि, यस्यास्ताह- शम्, कल्याणी तमामानं कन्यो तथा धनं दित्सन् अक्रमत प्रवर्तते स्म ॥ भारतीये- सुप्रीवः शोभनप्रीयः, वैकुण्ठो नारायणः, धनंजयाय अर्जुनाय, सुभद्रा तदाख्याम् ॥ प्रह- र्षिणीवृतम् ॥ इति श्रीदाधीचजातिकुद्दालोपनामकत्रीच्छोटीलालात्मजश्रीबदरीनाथाविरचितार्या द्विसं- धानकाव्यटीकायां मायासुप्रीवनिग्रहजरासंघषलविद्रावणं नाम नवमः सर्गः ॥ दशमः सर्गः। अन्यदा रसमिवैक्षवं वचश्चित्तहारि हरिवंशनायकम् । दण्डगर्भमपि भोगलोलुपं कोप्युपेत्य पुरुषोत्तमोऽवदत् ॥ १ ॥ अन्यदेति ॥ कोपी कोपनशीला, पुरुषोत्तमो लक्ष्मणः तन्नामा दूतश्च, भोगलोलुपं वि- षयसुखलम्पटम्, हरिवंशनायकं सुप्रीवं नारायणं च, उपेत्य समीपमेत्य, ऐक्षवमिक्षुविकार Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/११६&oldid=234576" इत्यस्माद् प्रतिप्राप्तम्