पृष्ठम्:Dvisandhanam kavya.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०३ ९ सर्गः] द्विसंधानम् । प्रमत्तानेकपालोलमुञ्चैरथनिरन्तरम् । प्रचण्डतरसामन्तं द्विषो दण्डमयोजयत् ॥ ३३ ॥ (त्रिभिः कुलकम्) पश्यनित्यादि ॥ अथ पुरोऽप्रतः, शत्रु पश्यनिव, खं गगन मुहुरुत्पतभिव, दिक्चक्र निगिलग्निव, पावकमुद्लिनिव, भूतानि संहरन् इव, विहरन् क्रीडन कृतान्त इव, प्रीष्मा- • भ्यर्कपदार्थेषु कश्चन चतुर्थ इव, उच्चैरत्यर्थ प्रमत्तानेकपालः प्रकृष्टाभिमानाननेकान् पाल- यति, स रामः प्रचण्डतरसा प्रकृष्टवेगेन अलमत्यर्थम् अमन्तं रोगवन्तं दण्डं दण्डनीति द्विषः शत्रोः निरन्तरं सातत्येन अयोजयत् । यद्वा दण्डमयः प्रमत्तानेकपालः प्रमत्तान्प्रमादिनो जनान् अपायापालयवि स रामः प्रचण्डत्तरसाम् तीव्रवेगानाम् अन्तं नाशकरं यथा स्या- तथा द्विषः शत्रून् अजयत् । भारतीये-प्रमत्तानेकपालोलं प्रमत्तः प्रक्षीबैरनेकपैर्गजैरा- लोलं चञ्चलम्, प्रचण्डतरसामन्तं प्रचण्डतराः सामन्ता यत्र तादृशम्, उच्चैरथनिरन्तरम् उचैर्महान्तोरथा निरन्तरा यत्र तादृशम्, दण्डं सैन्यम् द्विषः शत्रुमुद्दिश्य अयोजयत् ॥श्लेषः ।। .. अधिष्ठितोऽस्त्रविद्याभिवीरश्रीलक्ष्मणान्वितः । विजजम्भे तमुद्देशं विक्षेपो व्याप्य विद्विषः ॥ ३४ ॥ अधिष्ठित इति ॥ अलविद्याभिः यन्त्रमुक्त-पाणिमुक्त-पाणियुक्तेति त्रिविधैरस्त्रैः वि. याभिः शास्त्रैश्च अधिष्ठितः समाश्रितः, वीरश्रीलक्ष्मणान्वितः जयलक्ष्म्युपलक्षितलक्ष्मणेना- न्वितः, विक्षेपः परित्यक्तकालयापन:, रामः, तं साहसगतिम् उद्देशम् उद्दिश्य, विद्विषः शत्रून् व्याप्य विजजृम्भे प्रज्वलति स्म ॥ भारतीये-वीरश्रीलक्ष्मणा जयलक्ष्मीचिडेना. न्वितः, ते नारायणम् ॥ श्लेषः ॥ वज्रावते धनुर्मिश्रमिवाकृष्य निपीडितम् । ... तं नातिसंदधे को वा नम्रात्मा व्यभिचारकः ॥ ३५ ॥ . यति ॥ आवष्य निपीडितम्, वज्रावर्ते तन्नाम धनुः "मित्रमित्र' तं रामं न अति- . संदधे वचयति स्म । नम्रात्मा व्यभिचारको व्यभिचारी कः कोऽपि न भारतीये- वज्रावर्त वज्रस्येवावर्तो यस्य तं दण्डं सैन्यम् ॥ समासवदसौ लोपं दाहं मदनबाणवत् । विध्वंसघटनां राहुरिव कर्तुं समुथतः ॥ ३६ ॥ समासेति । असौ रामो दण्डश्व, समासवत् लोपम्, मदनबाणवत् कंदर्पशरवत् दाहम, राहुरिव विध्वंसघटना चन्द्रार्कमासं विनाशयोजनां च, कर्तुं समुद्यतः ॥ श्लेषः ॥ अस्त्राणि यन्त्रमुक्तानि तस्सिन्देशे समन्ततः । निर्धाता इव निष्पेतुर्घोरसंहारहेतवः ॥ ३७ ॥ अत्राणीति ॥ तस्मिन्देशे किष्किन्धाख्ये, सौराष्ट्राख्य च ॥ Dogticed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/११३&oldid=234572" इत्यस्माद् प्रतिप्राप्तम्