पृष्ठम्:Dvisandhanam kavya.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। गृहवापीषु सोपानपतयस्तस्य तापतः । पानीयपथसंचारैर्विमुक्ताः प्रतिवासरम् ॥ २६ ॥ गृहेति ॥ तस्य साहसगतेः, तापत उपद्रवात, पानीयपथसंचारैः जलनालिकासहशसं- चारः सततनिर्गमप्रवेशैः गृहवापीषु गृहेष्वेव वापीषु, सोपानपतयः प्रतिवासरं विमुक्ता जा- यन्ते । भारतीये--तस्य प्रीष्मस्य, पानीयपथसंचारैः कल्लोले:, गृहवापीषु गृहतुल्यदीधि- कासु।। श्लेषः॥ विहाय स्वानि सद्मानि तत्प्रचारविशङ्कया। दिनं गमितवन्तोऽन्ये वनदुर्गेषु निद्रया ॥ २७ ।। बिहायेति ॥ तस्य साहसगतेीष्मस्य च । वनं विपिनं जलं च । साहसगतेयं प्रीष्मस्य स्वरूपं वर्णितम् ॥ संतापवद्दिनं जातं निशा क्रशिमयोजिनी । अहो प्रतापो यत्तस्य बाधानिष्ठं दिवानिशम् ॥ २८ ॥ संतापेति ॥ संतापवत् संतापयुक्तं तापयुक्तं च, शिमयोजिनी कशतो योजयति कृ. शतया युज्यते च या, बाधानिष्ठं पीडाजनकम् ॥ उद्दीपितोऽर्यमायाभिर्निजप्रकृतिभिर्जनम् । अतापयदसावेवं तीव्राणां हीदृशी गतिः ॥ २९ ॥ उद्दीपित इति ॥ हे अर्थ, निजप्रकृतिभिरुद्दीपित उग्रः, असौ साहसगतिर्मायामिर्जनमेवम् अतापयत् । तीव्राणां गतिरीदृशी भवति ॥ भारतीये-याभिनिजप्रकृतिभिः, अर्यमा सूर्य उद्दीपितः, ताभिरेव असौ प्रीष्मः ॥ श्लेषः ॥ तथावस्थं तमालोक्य तथा च क्रीडनोचितम् । रिपुमुहाधितुं पापच्छिद्रामोघधियोद्यतः ॥ ३०॥ तथेति ॥ पापच्छिद् पापहारको रामस्तथावस्थं तं सुग्रीवम् आलोक्य तथा तथावस्थम् क्रीडनोचितं जनोपद्रचेण खेलनयोग्यम्, रिपुं साहसगतिम् उद्बाधितुम्, व्यापादयितुम् अ- पधिया पापबुझ्या उद्यतः ॥ चक्री जरासंधः, तं शुचिसमयम्, आलोक्य, ईडनोचितं स्तुतियोग्य, रिपुं नारायणं पापच्छिद्रामोघधिया पापद्वारेष्वप्रतिहतबुझ्या ॥ श्लेषः ॥ पश्यन्निव पुरः शत्रुमुत्पतन्निव खं मुहुः । निगिलन्निव दिक्चक्रमुद्लिन्निव पावकम् ॥ ३१ ॥ सहरन्निव भूतानि कृतान्तो विहरन्निव । ग्रीष्मान्यर्कपदार्थेषु चतुर्थ इव कश्चन ॥ ३२॥ . Diated to, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/११२&oldid=234571" इत्यस्माद् प्रतिप्राप्तम्