पृष्ठम्:Dvisandhanam kavya.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ सर्गः] द्विसंधानम् । साकृतोच्छुसितावश्यं महिषी सकलाकुला । सुशृङ्गारार्यतापाङ्गविभ्रमात्तं जलाशयम् ॥ २१ ॥ साकृतेति ॥ हे आर्य, उच्छृसिता प्राणभूता, सकला कलायुता, आकुला व्यप्रा, सुशृ- भारा प्रशस्तभूषणा, सा लोकप्रसिद्धा, महिषी साहसगतेोलिनः पराझी ताराभिधाना, जडाशयं मूढाशयम्, ते साहसगति वालिनम्, तापाविभ्रमात् तापाङ्गस्य विशेषेण भ्रम- णात्, वश्यं वशवर्तिनम् अकृत चकार ॥ भारतीये-कृतोरसिता विहितोसना स- कला समस्ता, आकुला धर्माधिक्येन व्यप्रा, सुङ्गा सा महिषी सैरिभपनी अपाङ्गविभ्र- मात्तं कटाक्षविक्षेपकोडीकृतं यथा स्यात्तथा जलाशयं सरोवरम्, अवश्यम् आरायत कु- टिलं गतवती ॥ श्लेषः ॥ सैकतेषु प्रियोपेता न तत्संचारभीरवः । संचरन्ति स्मराजीषुनिबद्धा राजहंसकाः ॥ २२ ॥ सैकेति । तत्संचारभीरवः तस्य साहसगतः संचारागीरवः, राजहंसकाः क्षत्रियसमूहाः, स्मराजीषुनिषद्धाः कंदर्पसङ्कामशरनियश्रिता अपि प्रियोपेता मार्यायुताः सन्तः सैकतेषु न संचरन्ति ॥ भारतीये-तत्संधारो प्रीष्मसंचारः, राजीषु श्रेणिषु निबद्धा नियमितगात्राः राजहंसका मुक्ताहारपरिच्छदपक्षिसमूहाः न संचरन्ति स्म ॥श्लेषः ॥ लोको वितपमानेन तप्तस्तेन गृहं गृहम् । अनुप्रवेशं निभृतमध्यास्तेहितकाम्यया ॥ २३ ॥ लोक इति । वितपमानेन दीप्यमानेन तेन साहसगतिना तप्तः क्लेशितो लोको गृह गृहं अनुप्रवेशं प्रविश्य ईहितकाम्यया मनोवाञ्छया निभृतं निश्चलम् अध्यास्त । भार. तीयेतेन प्रीष्मेण, हितकाम्यया सुरताभिलाषेण, अध्यास्ते ॥ श्लेषः ॥ मातरिश्चैकवृत्तेऽस्मिन्कालान्तरवितापिनि। तप्तं नाथहरिकुलं निलीनं वृक्षकुक्षिषु ॥ २४ ॥ मातरिश्वेति ॥ हे नाथ, मातरि जनन्या श्वैकवृत्ते जुन इव एकं वृत्तं यस्य तादृशि, कालान्तरवितापिनि समयान्तरप्रतपनशीले, अस्मिन् साहसगतौ सति, तप्तं दुःखितं ह- रिकुलं वानरकुलं वृक्षकुक्षिषु निलीनम् ॥ भारतीये--मातरिश्वकवृत्ते वायौ एकं वृत्तं जीवनं यत्र तत्र, कालान्तरवितापिनि प्रलयतुल्यसूर्यतापयुते, अस्मिन्प्रीष्मे, नाथहरिकुलं वृषसमूहः वृक्षच्छायायाम् ॥ श्लेषः ॥ परोत्तापनशीलस्य पांसुलस्य चितौजसः । दुर्वृत्तं दुःसहं तस्य दुर्जनस्येव लक्षितम् ॥ २५॥ , परोसापेति ॥ परोत्तापनशीलस्य परपीडनशीलस्य, पांसुलस्य पुंश्चलस्य सदोषस्य धू. लिमतश्च, चितौजसः दुष्टपराक्रमस्य दुष्टतेजसश्च । Doganced bGoogle

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१११&oldid=234570" इत्यस्माद् प्रतिप्राप्तम्