पृष्ठम्:Dvisandhanam kavya.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। जातं रणरणोपेतं साराविणमितस्ततः । ___ प्रभजनोद्यतं तस्य मदाघातकरं महत् ॥ १६ ॥ जातमिति ॥ रणरणोपेतं शस्त्रध्वनिसंयुक्तं प्रभअनोद्यतं विध्वंसनोपेतं मदाघातकर म- जातम् । भारतीये-तस्य ग्रीष्मस्थ, रणरणोपेतम् शब्दानुगतशब्दोपेतं प्रभजनोयतं म. हावातकृतं मदाघातकरमूष्मातिशयेन हर्षविनाशकरम् ॥ मजनेषु मनो गूढं विपरीतजलात्मसु । प्रकृत्या यः पुरस्तेषां समापातयदङ्गिनाम् ॥ १७ ॥ मजनेष्विति ॥ तेषाम् अङ्गिनां प्राणिनां पुरः अग्रेसरः, यः सुग्रीवविटः, प्रकृत्या स्व- भावेन विपरीतजलात्मसु धर्म्यपथविरुद्धजडात्मसु, मजनेषु मदयन्ति । 'मदी हर्षग्लेपन- योः। तेषु जनेषु, गुढं मनः समापातयत् समासक्तवान् । भारतीये-प्रकृत्या पुरः पुलो महान् यो प्रीष्मस्तेषां प्राणिनां मनो गूढं निबिड यथा स्यात्तथा, विपरीतजलात्मसु प- क्षिव्याप्तवारिपूर्णेषु, मजनेषु वाप्यादिलानस्थानेषु ॥ उच्चैरंहाः प्रतापेन कालः साक्षाद्भयानकः । तथामेयं पुरं देशं विश्वं विषमयोजयत् ॥ १८॥ उरिति । उच्चैरहा विपुलदेगः, साक्षात् काल इव भयानकः प्रतापेन विषमयो गर- लमयो यः विश्वमशेषम् अमेयं पुरं नगरं देशं विषयम् अजयत् । भारतीये-तीनवेगः, प्रतापेन अत्यूष्मणा भयानकः कालो ग्रीष्मः अमेयं गणनातीतम् पुरं देशं विश्वं लोकं कर्म विषं जलम् जलाय अयोजयत् प्रेरयामास ॥ उत्तुङ्गश्यामलकुचा तेन रम्या प्रियालकैः । वनाधिदेवतालक्ष्मीः सर्वेषां पश्यतां हृता ॥ १९ ॥ उत्तुति ॥ तेन वालिना उत्तुश्यामलकुचा पीनकृष्णस्तनी, अलकैः कुटिलकेशै रम्या, वनाधिदेवता आलयाधिदेवतारूपा प्रिया भार्या लक्ष्मीः सर्वेषां भूचरखेचराणां प- श्यतां सतो हृता ॥ भारतीये-तेन ग्रीष्मेण उत्तुङ्गश्यामलकुचा अत्युचकृष्णलकुचवृ. क्षवती, प्रियालकै राजादनै रम्या मनोहरा वनाधिदेवतालक्ष्मीवनस्याधिदेवतैव लक्ष्मीर्हता ॥ चन्दनस्यन्दसान्द्राङ्गी मल्लिकामालभारिणी।। तारेन्दुवदना बाला सापि तेनोपतापिता ॥ २० ॥ ' चन्दनेति ॥ तेन साहसगतिना, चन्दनस्यन्दसान्द्राङ्गी श्रीखण्डलेपलिप्साङ्गी, मलिका- माल्यधारिणी मलिकाया माला बिभर्ति तच्छीला, इन्दुवदना चन्द्रानना बाला मुग्धा अपि सा तारा उपतापिता ॥ भारतीये-चन्दनस्यन्दसान्द्राङ्गी चन्दनस्यन्दवत्कोमला, माल्य- भारिणी पुष्पभारवती तारेन्दुवदना शारदचन्द्रोज्वला बाला नमप्ररोपिता सामालिकापि ॥ Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/११०&oldid=234569" इत्यस्माद् प्रतिप्राप्तम्