पृष्ठम्:Dvisandhanam kavya.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। कलत्रपुत्रमित्राणि गृहीत्वा तत्र ते जनाः । यथायथं पलायन्ते भाविभद्रं हि जीवितम् ॥ ३८ ॥ कलत्रेति ॥ तत्र किष्किन्धायां सौराष्ट्रे च ॥ अर्थान्तरन्यासः ॥ ततो बलेन बाल्येऽपि सहजेन कृतायतिः । सर्वार्जुनमयोदात्तनायकाभरणान्वितः ॥ ३९ ॥ परदारग्रहाविष्टः स्पष्टमायोजितायुधः। दिव्यान्वयोऽत्र सुग्रीवरूपः कोपारुणेक्षणः ॥ ४०॥ कृत्वोचैरथवेगेन केशवस्त्रातिसंयतिम् । निर्ययौ साहसगतिः सभीमः संयुगं प्रति ॥ ११॥ (त्रिभिः कुलकम्) तत इत्यादि ॥ अथानन्तरं ततस्तनगराद्, बाल्येऽपि सहजेन अकृत्रिमेण बलेन प- राक्रमेण कृतायतिविहितप्रसिद्धिः, सर्वार्जुनमयोदात्तनायकामरणान्वितः सर्वैः समस्तैरर्जु- नमयैः सुवर्णविकारभूतैरुदात्तनायकैर्दीयुत्कटैराभरणैरन्वितः, परदाराप्रहाविष्टः परकीय- दारेष्वाग्रहेणाविष्टः, स्पष्टमायो व्यक्तकौटिल्यः, जितायुधोऽभ्यस्तशस्त्रः, दिव्यान्वयो दि- व्यानां देवानां संततिः, सुग्रीवरूपः सुग्रीवतुल्यरूपधारी, कोपारुणेक्षणः क्रोधलोहितलो- चनः, भीमो भयानकः स लोकमसिद्धः साहसगतिर्वा लिनामा, उचैरत्यर्थे, केशवस्त्राति- संयति केशानां चिहुराणां वस्त्राणां वाससां च अतिसंयतिम् अतिशयेन बन्धनं कृत्वा वेगेन संयुगे प्रति निर्ययौ ॥ भारतीये-ततो द्वारकायाः, कृतायतिविहितोत्तरकालफलः, सर्वार्जुनमयोदात्तनायकाभरणान्वितः सर्वैरर्जुनमयैर्धनंजयहेतुकैरुदात्तनायकैरुप्रस्वामिभि- रेव आभरणैरन्वितः, परदाराग्रहाविष्टः परेषां शत्रूणां दारे विदारणे आप्रहाविष्टः, स्प. ष्टम् आयोजितायुधः आत्मसात्कृतायुधः, दिव्यान्वयो मनोहरवंशः, सुग्रीवरूपः शोभ- नग्रीवायुतरूपः, साहसगतिः आ ईषत् हसेन हासेन सहिता गतिर्यस्य स्मितपूर्वगामी, सभीमः भीमेन वृकोदरेण सहितः, केशवः त्रातिसंयति समाहबन्धनं कृत्वा उच्चैरथवेगेन उचैः स्यन्दनरंहसा सहजैन बन्धुना पलेन पलभद्रेण सह ॥ श्लेषः ॥ निषेकदिवसः कच्चिदुपालिङ्गन्नु किंचन । प्राणिनामपमृत्युः खिदिति लोकं विशङ्कयन् ॥ ४२ ॥ आलीढपदविन्यासमध्यमध्युषितं जगत् । अमंस्तोपनतं विश्वं सहसाकृष्टकार्मुकः ॥ ४३ ॥ (युग्मम्) निषेति ॥ नु अहो, कश्चित् कोमलामन्त्रणे प्राणिनां निषेकदिवसो मरणदिन किंचन उपालिङ्गन, स्वित् प्राणिनामपमृत्युः इति एवंप्रकारेण लोक विशङ्कयन् विशेषेण शङ्का Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/११४&oldid=234575" इत्यस्माद् प्रतिप्राप्तम्