पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६
वत्सराजप्रणीतरूपकसङ्ग्रहे


 नारदः-( सहर्पम् ) भगवनम् ! त्वयि सपक्षे देवानां भविष्यति भगवान्नारायणः सेनानीरतः को विजयसंशयः ।

यतो घर्मस्ततः कृप्णो यतः कृष्णस्ततोः जयः ।

 कार्त्तिकेयः-( प्तक्रोधं त्वगतम् ) कथं मां सेनान्यं निरस्य नारायणः सुराणां सेनानीर्भविष्यति ? । ( प्रकाशं ससंरम्भम् ) अयि नारद !

हित्वा पौरुपवासनां न महिलाभावं गमिष्याम्यहं
 पाञ्चोत्सारितगौरबो नहि मुने ! हुस्वो भविप्पामि वा ।
कृर्मक्रोडझपादिरूपविगतिर्नैवानुभाव्यां मया
 सेनानोः पुरुपोत्तमो दिविपदां योग्यो न मादृग्जनः ॥ ४० ॥

 नारदः-( सहर्पम् ) दिष्टया वर्द्धते दिविपद्रर्गः । यदयं संरब्धः शम्भुनन्दनः । ( प्तहसोपमृत्य कार्त्तिकेयं शिरस्याघ्राय )

अबालविक्रमो वालः शूलिनो मोदतामयम् ।
अस्य प्रसादतो देवा निर्जरा यान्तु वृद्धताम् ॥ ४१ ॥

 महेशः-अयि कार्त्तिकेय ! किमनभिज्ञः प्रलपसि ?॥मद्धन्धुर्मधुकैटभारिः पितृव्यस्ते भवति ।

कार्त्तिकेयः-( सप्रश्रयम्) यदि पितृव्यस्तर्त्कि मयि स्धिते पिता पितृव्यः पितामहो वा रणायासमनुभविप्यति ? ।

 महेशः-( सस्मितम् ) अयि नारद् ! गच्छ । समानय पितामहकृष्णौ । मा कदाचन तद्वरप्रदानगर्वितास्त्रिपुरासुरा `भविप्यन्ति । तत्तदनुमतेनैव तान्निर्दहामि ।

 नारदः-पधाऽऽदिशति देवः । ( इति निष्क्रामति )

 महेशः--अयेि महैन्द्रादयो देवाः ! सर्वे सज्जीभवत नेिजनिजदिङ्वुखेषु । एप निप्पन्न एव त्रिपुरदाहः । रक्षणीयः परमिह मायाप्रपञ्चो दुर्लक्षो दानवानाम् ।

 इन्द्राद्याः-( सप्रश्रयं सहर्पम् ) यथाऽऽञ्ज्ञापयति देवः ।

( इति सर्वे निष्कान्ताः )

प्रथमोऽङ्क: