पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८५
त्रिपुग्दाहो डिमः


(नेपध्ये )

दैत्यान्तकारिचक्त्तपराक्त्तभस्य
 यो हीनतां पिशुनयत्यविनष्टमौलिः |
सोत्कर्परोपभरभीषणनिःपिधान-
 र्दष्ट्रः स एप विनिहन्ति विधुन्तुदोऽर्कमू ॥ ३७ ॥

 तत्परित्रायतां यः कश्चिदिह शरतरः सुरोऽस्ति ।

 महेशः-(ससंरम्भम्) नन्दिन्नुपनय मे चापम् द्रागस्तु निःशोकःसृर्यलोकः ।

 नन्दी-आः!कोऽयमसद्रहो विगतविग्रहं निगृहीतं राहुग्रहं ग्रहीतुम् । त्रिपुरदाह एवारभ्यताम् , येनोपरुडदेवयानपितृयानेन घर्मपथनिर्मूलमुन्मूल्यते ।

(नेपथ्ये )

 ( सक्रोधम् ) आः ! क एप धर्ममुन्मूलयति ? ।

धर्मः सदैच यलवान्विजयैकहेतुः
 धर्मोभिरक्षति परं स्मरणमयत्नात् ।
ते जम्भकैटभ्मगाजन्धकनारकाघा
 धर्मद्रुहः कथय केऽभ्युदयं प्रपेदुः ॥ ३८ ॥

 नारदः-( सहर्षम् ) कथमागत एव मम ज्येष्ठो भ्राता व्रह्मनन्दनो धमैः ! ।

 धर्मः-( प्रविश्य )भगावन्नशेप जगदाधार ! एप त्वां धर्मः प्रणमति ।

 महेशः-अयि धर्म ! किमेवमुच्पते ? । अस्माकमपि वृपभरूपधारस्स्वमाधारः । इहोपसीदतु भवान् ।

 धर्मः-महेशा ! त्रिपुरोपरुद्धे जगति इहैव मे स्थानम् ( इत्युपविशति )

 नारदः--( सहसोपसृत्य सप्रश्रयम् ) भगवन् धर्म ! एप त्वां कनिष्टो नारदोऽभिवादयते । ( इति प्रणमति )

 धर्मः-( सहर्पम् ) वत्स कलिप्रिय ।

सुधान्धसां पक्षपरिग्रहेण
 विनिग्रहेणोन्मददानवानाम् ।
निप्पादयेिप्यामि कलिं कठोरं
 त्वत्प्रीतये चात्मचिवृद्धये च ॥ ३९ ॥