पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१
वत्सरानप्रणीतरूपकसङ्ग्रहे


अस्तोदपत्पितिरियं किमु लङ्घनीया
 केनापि किन्नु पुरुषप्रवरः स एकः ।
यत्कातरा बहुतराः सहसा समेत्य
 तद्धैशसव्यतिकरं मुहुरारभन्ते ॥ २८ ॥

 तत्कथय कोऽयं वीरशिरोमणिः ? ।

 वृहस्पतिः--अयि शिलाद्सृनो ! कथितः किमेप विज्ञेयः अन्तरिक्षचरग्त्रिपुराभिधानो धूमकेतुरिय त्रैलोक्यस्य ? ।

दुष्प्रेक्षाः प्रसरत्प्रभूतहुतभुग्ज्वालौघनीराजित-
 व्पोमानो मुखरस्फुलिङ्गपटलप्रच्छादिताशामुखाः !
गङ्गाम्भःकवचे शिाघस्य शिरसि प्रेङ्खन्ति तन्मार्गणा-
 स्थाङ्कारान्न पुनः श्ट्रणोति दिविपहुर्दैवतस्तत्कृतान् ॥ २९ ॥

 न चायमन्तरिक्षचरोऽन्तरिक्षमेव क्षिणोति | क्षितिरपि सुतरामनेनैवोत्ताप्यते । सोऽपि रसातलनायको भुजङ्गराजो भग्न एवानेन ।

( ततः प्रविशति पृथिवी )

 पृथिवी-( प्तोद्वेगमाकाशे लक्ष्यं बध्वा ) भअवं कमलुन्भव ! किं तुमं उआलभेमि ? अहो दे दुव्विलसिदं !

साधारणा अट्ट कुलाअला णं
 ते दिग्गआ सो अ भुअंगराओ ।
मं धारिऊणं इअ वित्थरेण
 भजेसि किं दारुणदणवेर्हि ॥ ३० ॥

 ता ण तुमं उवसप्पिस्सं । तं य्पेव चंदसेहरं सरणं गमिस्सं, जी तुमं पि णिन्मेदि । (परिक्रामन्ती स्खछनमभिनीय सवैङ्क्ष्यम्) अहह ! सुट्ठु अवलम्हि संजादा । ता को मह आलंवणं । दूरे सो भुअंगरा[१]ओ ।


  1. भगवन्म् कमलोद्भव ! किं त्वामुपालभे ? । अद्दो ! ते दुर्विलसितम् ।

    साधारणा अष्ट कुलचला ननु
     ते दिगाजाः स च मुमङ्गराजः ।
    मां धृत्वा इति विस्तरेण
     भञ्जयसि किं दारुणद्वानवैः ॥

     तन्न त्वामुपसर्पिप्ये । तमेव चन्द्रशेत्वरं शरणं गनिष्यामि यत्त्वामपि निर्माति । अइह ! प्तुप्ठु अवलास्मि सञ्जाता । तत्को ममालम्बनम् । दूरे स भुजङ्कराजः ।