पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७९
त्रिपुरदाहो डिमः

(प्रविश्य सम्भ्रान्त इव )


 नारदः-

नेत्रे मीलय चन्द्रसूर्यमयनस्वर्भानुरायात्ययं
 प्रच्छन्नं क्रिपतां गजाजिनमिदं वैरस्य संस्तारकम् ।
शूलं निक्षिप दूरतः क्कचिदिदं युद्धापराधात्मकम्
 शम्भो ! तापस एव जीवतु भवान् घोरा रणे दानवाः ॥१६ ॥

 महेशः-( सोधम् )

समिति परिच्चितोऽहं सर्वदा सर्वदैत्यैः
 कथय कथप कोऽयं नारद् ! द्राङ्भुमूर्पुः ।
विरचयतु विशङ्कं नाकलोकं पिनाकः
 प्रलयजलदनादस्पर्द्धिमौर्वीरवर्द्धिः ॥ १७ ॥

 इन्द्रः---( स्वगतं सहर्पम्)

 दिष्टया रौद्ररसवासितमानसो हरः संवृत्तः । साधु नारद ! साधु ।यन पारदोसि विपत्पारावारस्य ।

 नारदः-( पार्श्वमवलोक्य ) अयि कुण्ठकुलिक्ष सहस्राक्ष ! किन्न विज्ञपयति भवान्? ।

 इन्द्रः-( सखेदं नि श्वत्य ) अयि महामुने ! केिमहमुपहसनीयो विज्ञपयामि ? । तथाहि---

काठिन्यं कुलिशादपेत्य हृदये सत्रासमावासितं
 सघो पन्न विदीर्यते विधुरितं दुर्दैत्यदर्पोदयैः ।
एकोप्यस्ति न मे विलोचनलवश्चक्षुःसहस्रं तनौ
 नूनं चित्रभिदं हृतं मम यशो यत्पश्यतः शत्रुभिः ॥ १८ ॥

 महेशः-( प्तोत्साहम् ) अपि जम्भशासन ! किमेवमुत्ताम्यसि ? । कियन्मात्राणि तव दम्भोलिदावानलस्य दानवकुलतृणानि ? ।

 इन्द्रः--( प्तप्रश्रयम्)

किं गर्वगर्भभणितिव्यसनेन शस्तो
 दम्भोलिरेप न तु देव । तव प्रभायः ।
औदात्यसुस्थमनसि त्वयि दानवानां
 दोर्दण्डखण्डनविधौ कतमोऽस्ति 'शौण्डः ॥ १९ ॥