पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
वत्सराजप्रणीतरूपकसङ्गहे


देवेष्वस्तमुपागतेपु सहसा तत्क्रोघलीलायितै-
 रेपाऽन्योन्यविरोधिनी क्क नु मुने ! विघा प्रयोज्या त्वया ॥१२॥

 नारदः-( सहासम् ) सैहिकेय ! अहमप्यत एव न देवानाऽऽकोप्य दानवान्निर्मूलमुन्मूलयामि । तथाहि ---

निर्मृलमुन्मृलितदानवेपु
 देवेयु निर्वैरसुखप्रियेपु ।
सङ्गामसँमर्द्दभरावलोक-
 कुतूहलं स्यात्क नु नारदस्य ॥ १३ ॥

 राहुः-( सोपहाप्तम्) अहो ! महाहवकृतूहलित्वं महामुनेः ! तदहं प्रतिग्रहान्तरनिरीहस्य पूरयामि भवतः समरावलोकनसमोहाम् ।

वराको राकायां मम कवलतामेत्यऽशरण-
 स्तथा दर्शेप्यर्काश्रयमुपगतः शीतकिरणः ।
तदघैव क्रूरप्रसृमरकरं केवलममुं
 करिप्यामि ग्रासं दिनपरिघृढं पशयतु भवान् ॥ १४ ॥

( इति सक्रोध निष्क्रान्तः )

 नारदः-( साश्चर्यम्) अहो चण्डिमा दानयखण्डस्य । तदहं भगवतीं भागीरथीमुपास्य खपडपरशुमुपवीणयितुमनुसरामि । तमेव देवं दानवेभ्यः क्रोधयिप्यामि । ( नमोऽवलोक्य ) सुरसमूहोऽपीदानीं शिवं सेवमानो भविप्यति ।

( इति निष्क्रान्तः )

विष्कम्भकः


(ततः प्रविशति सुरप्तमूहोपास्यमानो॒ महेशः)

 महेशः-(स्वगतं साशङ्कम्) आः किं पुनचिंध्वंसितानिच पश्याम्यमृतान्धसः ? । भवतु पृच्छामि । ( प्रकाशम् ) अयि सुरगुरो । किमेतत् ? ।

शाक्रं चक्षुःसहस्त्रं परिवहति हिमक्लीवराजीवमुद्रां
 पाशः प्राचेतसोऽपं पिशुनयति सुखध्वंसमालस्यवश्पः।
सुप्तोत्साहो हुताशः कलयति सुमनःकालिमानं द्वितीयं
 क्रूरां कष्टस्य काप्ठां स्फुटमभिदधति व्याकुला लोकपालाः ॥ १५ ॥

 वृहस्पतिः ----- (सोल्लुण्ठम् ) किं पुनर्भगवान्सर्वज्ञो नारदवदस्मान्कन्दलाय मुखरीकर्त्तुमिच्छति ? । स्वयमेव वेत्तु देवः ।