पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७७
त्रिपुरदाहो डिमः


भयज्वराटोपपचेलिमेपु
 दैत्येषु शौर्यस्य लवः कदासीत् ॥ ८ ॥

 अथवा नटोयं किमुपालभ्यते, यो राहुमपि वीरगणनायां गणपति ।

(नेपथ्ये )

 आ ! ब्राह्मणोऽसि । किं करोमि । निरड्कुशरसनो व्याहर पथा यथा रोचते ।

कनकशिखरिदुर्गं वज्रयाणिर्न मुञ्च-
 त्युदधिसलिसलिलदुर्गैर्जीवितो दानवारिः ।
स च पितृवनदुर्गं चन्द्रचूडोऽधिशेते
 सुभटभणितिशोभां युज्यते निर्जराणाम् ॥ ९ ॥

 नारदः--( स्वरानुप्तारेण ऊर्ध्वमवलोक्य स्वगतम् ) कथमयं राहुर्व्यहरति ? । भवतु । कोऽयं वराकः ।

( ततः प्रवेिशति व्योमयानेन राहुः । राहु' कनकशिखरीत्यादि पटति )

 नारदः--(प्तोपद्दाप्तम्) अयि राहुवीर ! उपहसनीयैव सुभटभणितिर्देवानाम् । तथाहि--

जम्भस्तम्भितविक्रमः सुरपतिर्मन्दोऽहदृनो रविः
 सोऽऽप्यास्ते गजकूत्तिगुसजघनो॒,देवस्त्रिशूलायुधः ।
कृष्णः सोऽपि कदर्थितो मधुमुरप्रायैर्मुहुर्दानवैः
 शौर्याशौर्यपरिस्थितिं सहृदयो जानाति राहुर्भवान् ॥ १० ॥

( राहु. साशङ्कमिव मूर्द्धकम्भेन वारयति )

 नारदः-( सहासम्) अयि र्सैहिकेय ! हस्तसंज्ञया वारय ।

 सहुः ( xxxxxx )

विहस्तितां नारद ! भामकीयां
 गतत्रपः कुिं हुससि प्रहृप्टः ।
करान्खरांशोर्हसितुं सहस्त्रं
 न तेऽस्ति वक्त्रं मदुपद्रुतस्य ॥ ११ ॥

 तदाकर्णय मे हितैपिणो वाणीम् ।

मन्दं नारद ! जल्प मुञ्चसि न किं विप्रोचितं चापलं
 मिथ्याहङ्कृतिजल्पितैस्तव हहा ! कुप्यन्तु मा दानवाः ।