पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
वत्सराजप्रणीवरूपासवहे


 रुक्मीः-(सगर्वम् ) अयि चेदीन्द्र ! मैवम् । अस्माकमेव वलमरणमनुकृष्णमरणमित्ययं क्रममृत्युलक्षणः सौराज्यधर्मो पालयितव्य एव ।

 बलभद्रः-(सक्रोधम् ) अयि शिशुपाल ! क्फ मे सौम्रात्रम् ? ।

प्रतापप्रावन्द्योदयिनि रणदुर्भिक्षसमये
 भवान्भक्ष्यः प्राप्तो मधुमधनखङ्गस्य परमः।
स्ववाणानांभोक्तुं तमपि वितराम्याशु यदहं
 फलं वन्धुप्रीतेस्तदुचितमहो किन्नु विदितम् ॥ ६॥

 रुक्मी-(बलमदं विभाव्य स्वगतम्) अये हलमस्य महायुधम् । तदेवं तावत् । (प्रकाश सावज्ञहासम् ) अयि बलभद्र ! वालिशोऽसि । किमस्मिन्दासञ्चरे सहीरयर्मनि प्रवर्त्तसे।

नदीं मृद्वीं क्रष्टुं प्रभवसि परं सूर्यतनयां
 प्रलम्वं विच्छेत्तुं त्वमसि तृणमुच्छृङ्खलवलः ।
समिद्भूमिः सेयं विपमविपमा लोहकठिना
 कृतेऽप्यत्रायासे हलधरहलं निष्फलमिदम् ॥७॥

 अपिच-

वलभद्र ! बलीवर्द्दो लाङ्गलं चालयन्भवान् ।
यशः कतममस्माभिर्लभ्यते तदिपाटनात् ॥८॥

 शिशुपाल:-रुक्मिन् ! भद्रं भद्रमायातमस्मासु।आकर्णय दुन्दुभिम् । अस्मदीयसमरदुन्दुभिश्रवणानन्तरमेव व्यावृत्तः कृष्णः ।

 स्वमी-(कृष्णदुन्दुभिव्वनं प्रत्यभिज्ञाय सहर्षम् ) प्रियं प्रियं नः। पूर्यतां पूर्यतामिदानीं कियत्यपि सङ्गरप्रत्याशास्माकम् ।

 वलभद्रः-सात्यके ! किं कृतमिदं कृष्णेन ।

 सात्यकिः-समरदुन्दुभिमाकर्ण्य कथन्नु तिष्ठेत्कृष्णः ? । नहि नहि केसरी कुञ्जरारावमाकर्ण्य विलम्बते ।

(ततः प्रविशति कृष्णो रमिणी सुबुद्धिः मुवत्सला च)

 कृष्णः-(साक्षेपम् ) अयि दारुक ! अतिकातरोऽसि मिथ्याहितोऽसि यत्तव कृपणपाणितोऽपि निष्ठुरमुष्टिग्रहौ रथाश्वरश्मिपु पाणेः।