( ततः प्रविशति रथारूढ. सात्यकि' सारथिश्च )
सात्यकिः ( सहर्पाक्ष्चर्यम् ) अहह ! रुकिमन्यास्तदानीमवस्धासङ्करः तथाहि सा -
सरभसनमनाः कृष्णं लब्ध्वा चिरादभिकाङ्क्षितं |
मयाऽपि साधु कृतं, यत्कृप्णदेवः समरसंमर्दवद्धग्रहः सप्रणाममभ्यर्थ्य पुरतः प्रस्थापितः । कुसुमसुकुमारमना हि रुक्मिणी वन्धुवर्गकदनकष्टसाक्षिणी न जाने कथं भवेत् । अत्र च-
कन्यान्तःपुरचारिणो नृपजनास्ते खर्वकुव्जादयो |
तदहमिदानीं रुक्मिशिशुपालप्रमुम्वसरोपधाविताऽरिवर्गविनिवारणव्यग्रात्वलदेवादीनुपसर्पामि । सारथे ! त्वरय त्वरय रधम् ।
सारथिः-( तथा कुर्वन्पुरोऽवलोक्य ) आयुप्मन् युयुधान ! कथमयं यलदेवः सवलो व्यावृत्त इतोऽभिमुख एव दृश्यते ।
सात्यकिः-(विभाव्य साशङ्कम् ) आः ! किमेतत् । किमयं रुक्मिशिशुपालादोन्व्यापाद्य पुरोन्माथाय धावितस्तदुपसृत्य निवारयामि ।
(तत. प्रविशति बलदेव )
सात्यकिः-(सप्रणामम् ) अयि वीराधिराज राम ! किमेतदारभ्यते ? । व्यापादितेपु शिशुपालादिपु अलमिदानीमनपराधिनो भीप्मकस्य पुरप्रमाथेन ।
वलभद्रः-सात्यके ! केन ते व्यापादिताः कस्य लोचनगोचरतां गनाः? ।
सात्यकिः-( प्तवितर्कम्) वलदेव! न ते वीराभिमानिनः पलायन्ते । नूनं