पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६५
रुक्मिणीहरण ईहामृगः ।


 सुबुद्धिः-( श्रुत्वा ) वत्से रुक्मिणि ! एह्येहि साघयामः ।

 रुक्मिणी'--( सास्रम् ) भअवदि ! अणुमण्णसु मम मरणहूसंवं तुह पहावेणा लन्द्धसग्गगई तर्हि य्येवं ईदाणिं अञ्चइस्सं[१]

 सुबुद्धिः--इन्द्रावरजजाया युक्तमेव । यातरमिन्द्राणीमिह स्थिता नित्यमर्चयिप्यति ।

 रुक्मी-( स्वगतम् ) कथमम्वायाः कञ्चुकी रुक्मिणीमिन्द्राणीपृजार्थभाहृयते । तदर्ह शिशुपालं त्वरितपदमेव शिविरं प्रापयामि | (प्रकाशम्) चेदीन्द्र ! त्यर्यतां त्वर्यतां पुनर्विवाहवेला समासन्ना भविप्यति ।

 शिशुपालः- ( सहपैत्मुक्यम् ) सारथे ! त्वरय त्यरय रथम् ।

( सारयि, तथा करोति )

 शिशुपालः-( वामाक्षिस्पन्दनं सूचयित्वा स्वगतं सविपादम्) आः ! किमेतत् ! ( आकाशे लक्ष्यं यद्र्वा )

प्राप्से प्रस्दादसमये स मतोऽघ कामो
 वामं हहा ! स्फुरति किन्नु विलोचनं मे ।
जातोऽस्मि वा निविडनल्लयवासितोऽहं
 सा रुक्मिणी भवतुःतत्सुनिमित्तमेनत् ॥ १७ ॥

 रुक्मी ---- सारधे ! त्वर्यतां त्वर्यताम् ।

( इति निष्कान्तः )

 रुक्मिणी--- (निःक्ष्वस्य ) वारेदु मुहुत्तमेत्तं भअवदी वच्छलदा मह जीवं णीहरंतं[२]

 सुबुद्धिः--- वत्से कृष्णवल्लभे निवारितासि कृप्णाज्ञया मा पुनरमङ्गलं व्याहर । पूर्णमनोरथा एहि तावत्

( इति निधान्ताः सर्वे )

तृर्तीयोऽङ्कः ।



  1. भगवति ! अनुमन्यस्व मम मरणमदोत्सवम् । तव प्रभावेग लव्धस्वर्गगतिः तत्रैवैन्द्राणीमर्चयिप्ये ।
  2. वारयनु मुइर्त्तमाग्रं भगपती वत्मलतया ममं जीवे निरसरन्तम् ।