रुक्मिणी-भअवदि !वेवदि मह हिअअं, ता ण इध चिट्ठिस्सं[१]। (इति
वेपूमाना अपसरतेि )
सुबुद्धिः-( सवात्सल्यम्) वत्से रुक्मिणी! किमेवमुद्विग्रावेपसे ?। कुतो भयं मधुकैटभारिवल्लभायाः ? ।
रुक्मिणी-( सास्रम् ) अपि भउनवदि ! सुट्टु भोदम्मि । ण जाणे किं किं इध भविस्सदि । कह मह हआसाए णिव्वहणं भविस्सदि[२] !
सुबुद्धिः-( रुक्मिण्याश्चिबुकमुन्नमय्य ) वत्से ! समाश्वसिहि समाश्वसिहि । निर्वहणोन्मुखस्तव मनोरथः । किमहं दाम्भिका, किमस्सत्या ? । शीघ्रा मन्त्रसिद्धिः । किं त्वयि मन्दानुरागो मुकुन्दो मन्दशत्तिर्वा ? । एतावत्यपि कष्टसङ्कटे दुर्विनोतेन भ्रात्रा रुक्मिणा पातितासि ।
शिशुपालः-( स्वगत सोत्कण्ठ सानुतापं समन्ततोऽवलोक्य ) अहह वृथाघ वभूयास्माकं नगरविहारकुतूहलेन । तथाहि-
इह नगरमृगाक्ष्यो वीक्षिता एव वह्नयः |
अहह ! समरोपमर्दमर्दितानेकरिपुप्रवीरं मामपि किङ्करीकरोति कुसुमा युधः । अथवा-
सौन्दर्यसरैव न रुक्मिणी सा |
(नेपथ्ये )
भवति सुयुद्धिके ! आदिष्टोऽस्मि देव्या यथा किल भवता भगवतीं सुबुर्द्धि विज्ञप्प वेिवाहपूर्वकालाचारप्राप्तेन्द्राणीपूजार्थं वत्सा रुक्मिणी त्वरितं देवायतनं प्रापयितव्या । तदत्रभगवती रुक्मिणीमादाय समेतु ।