पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३
रुक्मिणीहरण ईहामृगः ।


 भीष्मकः-( स्वगतं तिाशङ्कम्) अये !किमपि साभिप्राय इव वन्दी पठति । किंचिदडुरितक्रोधा राजानः । तद्ग्रग्रत एव नीत्वा कृप्णमावासयामि तावत् । ( प्रकाशम् ) अयि कृप्णदेव ! इमां रथ्यां कृनार्थयता भवता समलङ्कियतां शिविरसन्निवेशः । अयि सारथे ! प्रवर्त्तय रथम् । अहमनुचरो भवामि ।

 कृष्णः-( सप्रश्रयम्) यथा रोचतेऽत्रभवते ! दारुक ! प्रवर्त्तय रथम् ।

( इति निष्क्रामति )

 भीष्मकः-( स्थित्वा ) कथं सुमन्थरः शिशुपालरथः। कथमयमायात्येव शिशुपालाग्रतो रुक्मी । तदहं कृष्णमेवानुयामि । ( इति निष्क्रान्तः )

( ततः प्रविशति शिशुपालो रुक्मी च )

 रुक्मी-(सहपोट्ठाप्तं पार्श्वमवछेक्य ) अयि वन्दिन् ! किं न पठसि महीमहेन्द्रं चेदीन्द्रम् ।

 वन्दी-( सगर्वमुच्चैःकारम्)

विचित्रामुत्पन्नां विकृतिमिव तां जन्मसमये
 विहायास्ते यद्यप्यपरनरतुल्योऽयमधुना ।
विरूपाक्षो युद्धे तदपि वहुवाहुः स्मरहरो
 नरेन्द्रैराराध्यो जयति दमघोपस्य तनयः ॥ १४॥

 सुचुद्धिः-( श्रुत्वा सौत्सुक्यम्) सर्वाःसमेता दृश्यतां गवाक्षेण शिशुपालः ।

( इति तया कुर्वन्ति )

 सुवत्सला-भञ्अवदि ! का उण एदस्स जम्मसमञ्अम्मि विइदो आसि[१]

 सुबुद्धिः-एयमनुश्रूयते । चतुर्वाहुस्त्रिनेत्रोऽयमुत्पन्नः । कृष्णस्यास्य क्रोडे प्रवेिष्टो द्विवाहुर्द्धिनेत्रो वभूव । कृप्णः किलास्यान्तकरो भविप्यतीति तदा दैवविद्भिरादिष्टम् ।

 रुक्मिणी--( सभयम्) भअयदि ! किं एस रक्खसो कोवि[२] ? ।

 सुबुद्धिः-एवमेव ।


  1. भगवति ! का पवरेतस्य जन्मसमये विकृतिः आसीन् ।
  2. भगवति ! किमेप राक्षसः कोपि? ।