पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

378 सव्याख्यायामद्वैतसिद्धौ [प्रथम: विषयादेः प्रागज्ञाने कथं तद्विशिष्टाज्ञानज्ञानम् १ विशेषण- ज्ञानाधीनत्वाद्विशिष्टज्ञानस्येति – वाच्यम्; विशेषणज्ञानस्य विशिष्टज्ञानजनकत्वे मानाभावात्, प्रतियोगित्वाभावत्वयोः पूर्वानुपस्थितयोरपि तार्किकैरभावबोधे प्रकारीभूय भाना- भ्युपगमात्, तथाहि – विशेषणतावच्छेदकप्रकारकज्ञानं विना कथं विशिष्टवैशिष्टयबुद्धिारति – चेन्न; विशिष्ट वैशिष्टयबुद्धित्वेन विशेषणतावच्छेदकप्रकारकज्ञानत्वेन च कार्यकारणभावे माना- भावात्, प्रत्यक्षत्वादिरूपेण पृथक् पृथक् क्लृप्तकार्यकारणभावे- जानामीति प्रत्यक्षकाले प्रमारूपप्रतियोगिस्मृतिनियमः; तथा सति हि त्वन्मते प्रतियोगिस्मृतिव्यक्तीनां तदा कल्पनायां महागौरवादित्यपि. बोध्यम् । अज्ञानज्ञानम् - अज्ञाना काराविद्यावृत्त्यवच्छिन्नचिद्रूपम् । अविद्योपहितचिन्मात्रस्य साक्षित्वे तु नायं दोषः; जन्यविशिष्टबुद्धा - वेव विशेषणधीहेतुत्वात् । विशिष्टबुद्धित्वेनैव जन्यत्वेऽपि विशि- ष्टबुद्धेः स्वाव्यवहितप्राक्क्षणाः यावन्तस्तत्तदव' च्छेदन स्वाश्रये विद्यमानस्याभावस्याप्रतियागित्वस्य कारणतात्वेन व्यभिचारासंभवात् । यद्धप्रिाक्कालः प्रसिद्धः तदवच्छेदेन तद्धीमति विशेषणवीविरहो हि व्यभिचारः ; न च नित्यसाक्षिणः प्राक्कालोऽस्तीति ध्येयम् । प्रत्यक्ष- त्वादीति । रक्तदण्डवानित्यादिप्रत्यक्षस्थले रक्तत्वादिनिष्ठलौकिक विष यतासंबन्धेन प्रत्यक्षं प्रति लौकिकसन्निकर्षस्य तन्निष्ठस्य हेतुत्वात् ष्ठलौकिकान्यप्रकारताकप्रत्यक्षे लौकिकान्य सन्निकर्षस्य हेतुत्वात् तादृश- तादृशविषयताकानुमित्यादौ तादृशतादृशपरामर्शादेहेतुत्वात्, रक्तदण्ड- त्वाद्यवच्छिन्नविषयताकधीत्वं न कार्यतावच्छेदकम्; बाधाभावादिसह- कृतेन्द्रियसन्निकर्षादिना दण्डादौ रक्तत्वाधवच्छिन्न प्रकारताकस्य पुरुषादौ दण्डत्वाचवच्छिन्न प्रकारताकस्य चोत्पत्तिसंभवेन नीलघटत्वादिवदर्भ- तन्नि , 1 तदव-ग. 2 वच्छेदेन विद्यमानाभावप्रतियोगित्वस्य-ग. …….….. ,