पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अज्ञानप्रत्यक्षोपपत्तिः 379 6 १ . नैवोपपत्तेर्विशिष्टवैशिष्टयबुद्धित्वस्यार्थसमाजसिद्धत्वात् इह च सामग्रीतुल्यत्वेन 'विशेष्ये विशेषणं तत्र च विशेषणान्तर' मिति समाजग्रस्तत्वात् । रक्तदण्डत्वाद्यवच्छिन्नप्रकारताकस्य च सधर्मिताव च्छेदकस्योक्तकारणेनोत्पत्तिसंभवात्, दण्डो रक्तो न वेति सन्देहेऽपि रक्तदण्डवानिति बुद्धौ जायमानायां 'विशेष्ये विशेषणं तत्रापि विशे- षणान्तर' मित्यस्या इव 'विशिष्टस्य वैशिष्ट्य 'मित्यस्या अपि विषय- ताया वक्तुं शक्यत्वात्, द्वितीयायां मानाभावात्, पक्षधर मिश्रादिभिर- स्वीकारात्, विशेषणस्य स्वविशेष्यान्विते विशेषणत्वस्थल एव विशिष्ट- वैशिष्टयव्यवहारसंभवाच्चेति भावः । उक्तहेतुत्वमङ्गीकृत्याप्याह - इह्- • चेति । विशेषणतावच्छेदकप्रकारकनिश्चयासंभवस्थले चेत्यर्थः । सामग्री- तुल्यत्वेनेति । यावन्ति विशिष्टवैशिष्ट्यबुद्धौ कारणानि तावतां विशेष्ये विशेषणमित्या दिबुद्धयुपधायकत्व संभवेनेत्यर्थः । न्यायेनेति । सर्वेषां विशेषणतावच्छेदकानामिति शेषः । अथवा - इह चेति । विशेषणताव- च्छेदकांशे धर्मितावच्छेदकं यत्र नास्ति तादृशस्थले चेत्यर्थः । विशिष्टस्य वैशिष्ट्यं विशेष्ये विशेषणं तत्रापि च विशेषणान्तमित्येतयोरिति शेषः । घटवदिति बुद्धेरुक्तद्वैविध्येऽपि विशेषणतावच्छेदकानश्चयो न तत्र हेतुः, किंतु रक्तदण्डवदित्यादिबुद्धे विंशिष्टवैशिष्ट्यधीरूपत्वेन तत्र ; अन्यथा दण्डो रक्तो न वेति धीकालेऽपि तदापत्तेः । तथाच ज्ञानविरोधित्वसविषयक'त्वविशिष्टज्ञान वैशिष्ट्यबुद्धावपि न विषयादि- निश्चयो हेतुः । न हि तयोरेकांशेऽपरस्य धर्मितावच्छेदकत्वमित्यत्र मानमस्ति, न वा ज्ञानविरोधित्वेनाज्ञानस्य प्रत्यक्षे भाननियमस्वीकारेऽ- ज्ञानत्वाख्याखण्डधर्म' भाने मानमस्ति; येन स एव धर्मितावच्छेदको 2 नस्य -ग. 3 धर्मस्य धर्मितावच्छेदकत्व- 1 समानविषयक-ग. नियमः; मानाभावादिति भावः -ग.