पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अज्ञानप्रत्यक्षोपपत्तिः


च उत्पनं च ज्ञानं साक्षात्साक्षिवेद्यम् । तस्मिंश्चात्पने तद्विषयोऽपि स्फुरतीति कुतो ज्ञानाभावोऽपि ? अज्ञानविशेषणतया त्वनुत्प- नमपि ज्ञानं साक्षिवद्यमिति नः दोषसाम्यम् । न चावच्छेदकस्य साक्षिवेद्यत्वं संभवति । यादृशस्य हि तार्किकादिमते मानसप्रत्यक्षवि- षयता तादृशस्यैव त्वया साक्षिवेद्यता वाच्या; अन्यथाऽनुभव विरोधात्, घटादौ ज्ञानाभावं साक्षात्करोमीत्यापत्तेश्च । तथाच ज्ञानाभावस्थानुप लब्धत्वेन क्ऌतत्वादात्मन्यपि तस्य तथात्वमिति भावः । ननु - साक्षिवेद्यत्वेन ज्ञानं क्लृप्तम्, तदधिकरणे तदभावोऽपि तथा कल्प्य- ताम्; तथाच ज्ञानतदभावयोः साक्षात्साक्षिवेद्यत्वेन न दोषस्तत्राह- उत्पन्नमिति । विद्यमानमित्यर्थः । अभावोऽपीति | साक्षात्साक्षि- वेद्य इत्यनुषज्यते । तथाच ज्ञानतदभावयोरेकतरस्य सत्त्वेऽन्यतर- स्यासत्त्वाद विद्यमाने च साक्षिणस्तादात्म्यरूपसाक्षाद्वेद्यत्वासंभवान्न तयोः साक्षात्साक्षिवेद्यत्वमिति भावः । अनुत्पनं अविद्यमानम् | विषय- स्येव ज्ञानस्याप्य विद्यमानस्याज्ञान विशेषणतया भानसंभवः । प्रमिणोमी- त्यादौ प्रमाविशेषणतया प्रमात्वादेरिवाज्ञानविशेषणतया प्रमाविरोधस्यापि- भानसंभवात् । अविद्यमानत्वं च प्रमायामिव प्रमात्वघटकाज्ञातत्वेऽपि सममिति भावः । अहं जानामीति धीसत्त्वेऽहं न जानामीति ज्ञानाभाववदहं प्रमावानिति भ्रमकालेऽहं प्रमाभाववानिति बुध्यभावादहमर्थे प्रमोपलब्ध्य- भावरूपानुपलब्घरहमेवार्थे प्रमाभावबुद्धिहेतुत्वावश्यकत्वात् प्रमाभावस्य साक्षिवद्यत्वे मानाभावः । न चानुपलब्धेः प्रतियोगिज्ञानसह कारंणैवा भावप्रमापकत्वात्प्रकृते च तदनुपपत्तेः साक्षिवेधत्वं तस्योच्यत इति वाच्यम्; साक्षिणोऽप्यविद्यावृत्त्यवच्छिन्नस्य जन्यत्वात् । जन्याभाव- प्रत्यक्षे च प्रतियोगिज्ञानस्य हेतुत्वात्तथाप्यनुपपत्तेः । न हि न प्रमाया इव -ख. 2 अहमर्थे -ग. 1 377