पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

376 सव्याख्यायामद्वैतसिद्धो पादनमनुचितमिति–चेन; प्रमाणवृत्तिनिवर्त्त्यस्यापि पाज्ञानस्य साक्षिवेद्यस्य विरोधिनिरूपकज्ञानतव्यावर्तकविषयग्रा- हकेण साक्षिणा तत्साधकेन तदनाशाब्याहत्यनुपपत्तेः । अज्ञान- ग्रहे विषयगोचरप्रमापेक्षायां व्याहतिः स्यादेव, सा च नास्ति । तदुक्तं विवरणे -- 'सर्व वस्तु ज्ञाततया अज्ञाततया वा साक्षि- चैतन्यस्य विषय एवे 'ति । न चैवं - ज्ञानाभावपक्षेऽपि विष- यादिज्ञानं साक्षिरूपम्, 'न जानामी' ति धीस्तु प्रमाणवृत्त्य- भावविषयेति न व्याहतिरिति वाच्यम्; भावरूपाज्ञानस्य साक्षात्साक्षित्रेद्यत्वेन तदवच्छेदकविषयादेस्तद्वारा साक्षिवेद्यत्व- संभवेऽप्यभावस्यानुपलब्धिगम्यत्वेन साक्षात्साक्षिषेद्यत्वाभावा- , CASS [ प्रथमः भावरू- का तद्दारा तदत्रच्छेदकविषयादेः साक्षिवेद्यत्वमिति वैषम्यात् । यद्यपि ज्ञानं साक्षिवेद्यम्, तडारा तदवच्छेदको विषयश्च साक्षि , वेद्यः, तथापि ज्ञानाभावो न साक्षिवद्यः; तस्यानुपलब्धत्वात् न क्षतिरित्याशयेन समाधत्ते - न प्रमाणवृत्तिनिवर्त्त्यस्येत्यादि । तव्यावर्तकेति । अज्ञानविशेषेणे त्यर्थः । तत्साधकेनेति । प्रमावि- रोधित्वसविषयकत्वविशिष्टाज्ञानस्यानावृतसंबन्धवत्त्वरूपं साधकत्वं सा- क्षिणोऽज्ञाननाशकत्वेऽनुपपन्नमिति भावः । अज्ञानग्रहे अज्ञानं विष- यीकर्तुम् । साक्षात्साक्षिवेद्यत्वाभावादिति । सविषयकत्वावीशी ष्टस्य सर्वस्यानावृतसाक्षिसंबन्धतया क्लृप्तत्वेन ज्ञानादिविषयीभूतस्या- भावस्य साक्षिवेद्यत्वेऽप्यतादृशाभावस्य तदभावादित्यर्थ: । ननु यथा ज्ञानं प्रति विशेषणतया तद्विषयः साक्षिवेद्यः तथा विशेष्यतयाभाबोs- पीत्यत्राह – यद्यपीति । अनुपलब्धत्वादिति । घटादौ ज्ञानाभाव- स्यानुपलब्ध्यैव धीः । न हि स्वमनोभिन्नदेशावच्छिन्नतयाज्ञानस्य 2 --

1 विशेषण-ग. 2 ज्ञानाभावस्थ-ग.