पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

216 • सव्याख्यायामद्वैतसिद्धौ [ प्रथमः त्वेऽपि वेदान्तबोध्यं सत्यमेवेति स्थितम् । यथा चाविद्यातत्का- र्यस्य स्वरूपतो. निषेधेऽपि तुच्छवैलक्षण्यम्, पारमार्थिकत्वा- कारेण निषेधे वा पारमार्थिकत्वधर्मशून्यस्यापि ब्रह्मणः स्वरूपेण सत्वम्, तथोपपादितमधस्तात् । ननु – तत्वमस्यादिवाक्येन प्रत्यक्षाद्यविरोधाय तत्वंपदलक्षितयोरैक्यामव मिध्यात्वत्यापि तदविरोधाय प्रत्यक्षादिसिद्धादन्यस्यैव मिथ्यात्वं बोध्यम्; अन्यथा प्रत्यक्षाद्यनुग्रहाय व्यावहारिकमपि सत्वं न कल्प्येत । 'नेह नाने" त्यादिनिषेधेनात्यन्तासत्वबोधनादिति – चेन; विशिष्टयोरैक्ये विशेषणयोरप्यै क्यापातेन सर्वत्र विशिष्टाभेदप- - व्याघातात्तदा मिथ्यैव दृग्दृश्यसम्बन्धानुपपत्त्यादित्युक्तेरुक्तत्वात्' । तस्मात्परास्येत्यादिश्रुतिः सृष्टिवाक्यवद्वैतश्रुतित्वाद्ध्यावहारिकशक्तिबोधिका न तु ब्रह्माणि तदत्यन्ताभेदपरा । न च शब्दस्वरूपादे: शब्दा- र्थस्य च समसत्ताकत्वनियमत्यागे सति बाघकाभावादद्वैत श्रुत्यर्थतात्वि- कतासिद्धिः, तस्यां चोक्तनियमत्याग इत्यन्योन्याश्रय इति - वाच्यम्; अद्वैतश्रुत्यर्थतात्विकत्वसन्देहोपि तर्काभावेन व्यभिचारसन्देहादुक्तनिय- मानिश्चयात् ॥ A 2 ननु प्रपञ्चः स्वरूपेण निषिद्धस्तुच्छ: स्यात्, पारमार्थिकत्वेन निषिद्धश्चेद्रमापि तथास्तु, ' अथ ब्रह्म तेन रूपेण मिथ्यैव स्वरूपेणैव सन्निर्षर्मकत्वात्तर्हि प्रपञ्चोऽपि ब्रह्मवत्स्वरूपेण सन्नस्तु तत्राह - यथा- चेति । वैलक्षण्यं सत्वप्रतीत्यर्हत्वादिति शेषः । ब्रह्मण इति । एवकारः शेषः । एकेन ब्रह्मणा सता सर्वत्र सदाकारधीसम्भवात् ; तद- न्यस्य सद्रूपतायां मानाभाव इत्यायुक्तमित्यर्थः । विशिष्टाभेदपरेति । 2 अथ तेन रूपेण ब्रह्मापि -ग. 3 पि 1 नुपपत्तेरित्युतत्वादिति स्यात्. तथास्तु तत्राह - यथाचेति-ग. -