पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] मिथ्यात्वश्रुत्युपपत्तिः रवाक्यस्य लक्षितविशेष्यैक्यपरत्वनियमेन तथाभ्युपगमात् । तदुक्तम्- 217 तत्त्वमसत्यित्रापि "अविरुद्धविशेषणद्वयप्रभवत्वेऽपि विशिष्टयोर्द्वयोः ॥ घटते न यदैकता तदा न तरां तद्विपरीतरूपयोः" ।। इति । मिथ्यात्वबोधकश्रुतौ तु नास्ति प्रत्यक्षादिविरोधः; विशिष्टद्वयोपस्थापकपदद्वयघटितेत्यर्थः । लक्षितेत्यादि । द्रव्यत्वघट- त्वायुपहितयोरभेद परत्वेऽपि लक्षणास्त्येव ; विशिष्टान्वयस्यौत्सर्गिकत्वात् । परंतु विशिष्टान्वयाभावावश्यकत्वे उपहितलक्षणायां न मानम् । यत्र तु 'तेन घटेन जलमाहर' इत्यादावुपहितान्वये तात्पर्यम्, तत्र एकहायन्या पिङ्गाक्ष्या क्रीणाति' इत्यादाविव करणत्वे उपहितान्वयानु- रोधादुपार्हतलक्षणास्तु । द्रव्यं घट इत्यादौ तु न तस्यां मानमिति तद्वदेव तत्त्वमसीत्यादावपि तात्पर्यानुरोधाद्विशेष्यस्वरूपयोरत्यन्ताभेद- रूपव्यक्ति मात्रस्वरूपैक्यबोध इति भावः । अविरुद्धेति । द्रव्यत्वघटत्वा- दिरूपेत्यर्थः । प्रभवत्वे घटितत्वे । एकता अत्यन्ताभेदः || 6 ननु – न वयमुपजीव्यविरोधं प्रकृते वदामः, किंतु प्रत्यक्षाद्य- विरोधेनापि मिथ्यात्वश्रुत्युपपत्तौ तद्विरोषित्वं तस्या न युक्तमितीति - चेन्न ; प्रत्यक्षस्येव मानान्तराणामप्यनुरोषे, मिथ्यात्वश्रुतेविषयालाभादता- त्विकप्रामाण्यस्य प्रत्यक्षादाववश्यं वाच्यत्वात् । यत्तु प्रत्यक्षाद्यननुरोधे तत्त्वमसीत्यादावपि विशेषणयोरैक्यपरत्वं स्यात् ; तदनुराधे तु मिथ्यात्व- श्रुतावपि प्रत्यक्षाद्यसिद्धवस्तु मिथ्यात्वपरत्वं युक्तमिति, तन्न; नहि तत्त्वमसीत्यादिश्रुतेः प्रत्यक्षाद्यनुरोधेन विशेषणयोरैक्यपरत्वाभाव इति बदामः, किंतु सोऽयमित्यादिवाक्यस्य; तस्यास्तु तदनुरोघेऽपि व्यक्तिस्वरूप पात्रतात्पर्यग्राहकानुरोधेन सोऽयमित्यादाविवाखण्डार्थत्वा ·