पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

215 परिच्छेदः] त्वस्य वोपपत्तौ न तात्विक सर्वमिथ्यात्वपरत्वकल्पनं युक्तमित्य- पास्तम् ; दृष्टान्ते अग्निविद्यादेरिव दान्तिके योग्यतादेस्तात्वि- कस्यानुपजीव्यत्वात् । न हि योग्यता तात्विकयोग्यतात्वेन निमित्तम्, किंतु योग्यतात्वेनैव । सकलद्वैताभावस्याधिकरण- स्वरूपत्वेन तदधिकरणस्य च ब्रह्मणः 'सत्यं ज्ञानमनन्तं ब्रह्म' 'तत्सत्यं स अत्मा' इत्यादिश्रुत्या सत्यत्वप्रतिपादनान सृष्टया दिश्रुतेरिव कल्पितविषयत्वोपपत्तिः । तस्माद्योग्यतादेर्मिथ्या- मिथ्यात्वश्रुत्युपपत्तिः 6 मानाभावादाधानोपनयनयोश्च' वसन्ते ब्राह्मणोऽमनादधीत ग्रष्मेि राजन्यः, शरदि वैश्यः, वसन्ते ब्राह्मणमुपनयीत, ग्रीष्मे राजन्यम्, शरदि वैश्यम्' इति विहितयोरशूद्राणामेव सिद्धेस्तेषामेवाधिकारस्ते- ष्विति सिद्धान्तः । तात्विकसर्वमिथ्यात्वेति । तात्विको यः स्वसमा- नाधिकरणाभावस्तत्प्रतियोगित्वेत्यर्थः । अत एवेत्यस्यार्थ विवृणोति- दृष्टान्त इति । ननु – विधीनां स्वार्थसमसत्ताकाग्निविद्यापेक्षावद्वैत- निषेधश्रुतेरपि तादृशयोग्यतापेक्षास्तु; निषेधश्रुत्या च न तात्विक भावो बोध्यते ; 'पराम्य शक्तिर्विविध' ति श्रुत्या विचित्रप्रपञ्चकारणविचित्र शक्तिरूपस्य द्वैतस्य ब्रह्मरूपताबोधनेन तात्विकत्वात, द्वैतसामान्या- भावस्य तात्विकत्वासम्भवादिति – चेत् ; भ्रान्तोऽसि ; विधीनामुक्तापेक्षा हि युक्ता तदर्थस्थेवामेराप व्यावहारिकस्यैव विहितत्वात्तज्ज्ञानरूप- विद्याया अपि तथात्वात् । वस्तुतस्तस्यामपि न नियमः; शाण्डि- ल्याय स्वप्नं निवेदयेत्, 'नेक्षेत वारिस्थमादित्यमित्यादौ स्वप्रवारि- स्थादित्यादिज्ञानस्य वेदजन्यस्यापि भ्रमसमानविषयकत्वेन प्रातीति कत्वात्, निषेषश्रुतेस्तु तात्विकार्थकत्वेऽपि तात्विकयोग्यतादिकत्वे मानाभाव इत्युक्तम् । ब्रह्मणोऽत्यन्ताभिन्ना तच्छक्तिश्चत्तदा तत्तात्विकत्वं न द्वैतमिथ्यात्वे बाधकम् । अथ सा तद्भिन्ना, अन्यथा नानाविषत्व-

6