पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

416 अद्वैतसिद्धिव्यख्यायां गुरुचन्द्रिकायां [प्रथमः कालसम्बन्ध इत्येवरूपा व्याप्तिरित्यर्थः । तथाच सिद्धसाधनम् । न हि यस्मिन् काले ब्रह्म तस्मिन् काले ब्रह्मणः कालसम्बन्धो नास्ति । एवं यत्रात्मा तत्र कालसम्बन्ध इति दैशिकव्याप्तावपि सिद्धसाधनम् । न हि देशकालासम्बन्धः कदाप्यास्ति । परम- मुक्तौ तु न देशो न काल इति सुस्थिरं सिद्धसाधनम् । ब्रह्मान्य- द्वेदैकगम्यं धर्मादि परमार्थसत् श्रुतितात्पर्यविषत्त्वात् ब्रह्मवादि- त्यपि न साधु । पारमार्थिकत्वेन श्रुतितात्पर्यविषयत्वस्यो- पाधित्वात् । साक्षिवेद्यं सुखादि परमार्थसत् । अनिषेध्यत्वेन अविद्यायाः पञ्चमप्रकारनिवृत्तेरपि सत्तादात्म्याभावे दृश्यत्वानुपपत्तेः लाघ- बेन कार्यमा सदुपादानकत्वात् तस्यां व्यभिचारः । अतएवध्वंसा- प्रतियोगित्वं सर्व पक्षवृत्तित्वेन साधनव्यापकमिति परास्तम् ; अभावान्य- त्वस्य पक्षहेत्वोर्निवेशासम्भवात् सत्तादात्म्यनिवेशे प्रागभावादौ साधना - व्यापकत्वात् पक्षेप्युपाधेः सन्देहे नसन्दिग्धोपधित्वसम्भवाच्च। सुस्थिर- मिति' | देशकालसम्बद्धं मन्मते सत्त्वेन प्रतीयमानं सर्वम् | ब्रह्मणे प्यविद्या- दिदेशकालसम्बन्धात्। तथाच तदन्यभेदसाधने सिद्धसाधनम् | तुच्छान्य- त्वाभ्युपगमात् परममुक्तौ देशाद्यसम्बद्धस्यापि ब्रह्मणः तादृशभेदस्य देशकालसम्बन्धरूपस्य परममुक्तयन्यकाले ब्रह्माण स्वीकाराच्च देशादि- द्वयवैयर्थ्य च । अत एव देशकालासंसृष्टसत्ताया अत्यन्ताभावे साध्येऽपि तदुभयम्; सत्तावत्त्वे न निश्चिते विशिष्टाभावस्य देशादिसम्बन्धरूप- त्वात् ? यत्किञ्चित्कालावच्छिन्नं देशकालासम्बद्धान्यत्वमादाय अर्था- न्तरं च । तद्वारणाय यदायदा ब्रह्म तदा देशादिसम्बन्धमित्युक्तावा - चार्य दूषणं बोध्यम् । पारमार्थिकत्वेनेत्यादि । परमार्थं परमप्रयो- जनमर्हति यत् तत्त्वेन विशिष्टा या श्रुतिस्तत्तात्पर्यविषयत्वस्येत्यर्थः । 3 सुस्थिरमित्यदेशकालसंबन्धित्वं , 1 असर्व ' साधन (बाधेन पा.) 4 वाचार्याय.