पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] भाविबाधोद्धार. 417 दोषाजन्यज्ञानं प्रति साक्षाद्विषयत्वात् आत्मवदित्यपि न ; शुक्तिरूप्यादिषु व्यभिचारात् । तेषां दोषजन्यवृत्तिविषयत्वेऽपि दोषाजन्यसाक्षिविषयत्वात् शुद्धस्य वृत्तिविषयत्वानभ्युपगमे दृष्टान्तस्य साधनविकलत्वाच्च । दोषजन्यज्ञानाविषयत्वविवक्षा- यां वा असिद्धो हेतुः । साक्ष्यवच्छेदिकाया अविद्यावृत्ते दर्दोष- , A.S.V. , तथाच मोक्षोपधायकप्रमाविषयत्वं श्रुतिजन्यधीमात्रप्रयोजनरूपत्वं वो पाघिर्लभ्यते; तादृशविषयतायोग्यताया विवक्षितत्वात् । एतेन साधनविशेषितोऽयमुपाधिरिति ईश्वरानुमाने शरीरजन्यत्ववदाभास इति परास्तम्, वस्तुतस्तु साधनावशेषितत्वं नाभासताप्रयोजकं उपाधे- दूषकताबीज विघटकरूपस्यैव तत्त्वेन दीधित्यादावुक्तत्वात् । 'साध्या- व्यापकतादिग्राहकतर्कस्तु पूर्ववत् । साक्ष्यवच्छेदिकाया इति । न च दोषजन्यत्वेनोभयवादिसिद्धं यत् ज्ञानं तदविषयत्वं वाच्यम्, अविद्या- वृत्तिस्तु न तथेति वाच्यम्; तथा सति जीवपरयोरैक्ये जवानणु' त्वे च तात्त्विकत्वसिद्ध्यापत्तेम्त्वन्मते व्यभिचारात्, मेचारात्, शुक्तिरूप्यादौ व्यभि चाराच्च । न हि तज्ज्ञानमुभयसिद्धं तादृशमस्ति; मया अविद्यानिवृत्ते स्त्वया तदन्यस्य तत्वाङ्गीकारात् । पूर्वोक्तरीत्या उभयसिद्धत्वस्य दुर्वच - त्वात् । अथोभयसिद्धो यो दोष स्तदजन्यज्ञानविषयत्वं वाच्यम्, शुक्ति- रूप्यादिधीजनकदोषः उभयसिद्धः, न तु सुखादिधीजनकदोषः, मम मते सुखादेस्साक्षिमात्रवेद्यत्वादिति चेन्न; त्वन्मते सुखादेरिव मन्मते शक्ति - रूप्यादेस्साक्षिमात्रवेद्यत्वपक्षे व्यभिचारात् । दोषत्वेनोभयसिद्धकाच दिजन्य- प्रत्यक्षादिविषयकाचादौ व्यावहारिके स्वरूपासिद्धेश्च । अथ भ्रमविषय- त्वेनो भयसिद्धं यद्यत्तदन्यत्वं हेतुः, तदा जीवानणु' त्वादावुक्तदोषः, दुर्जेय- तासिद्धत्वस्य ज्ञातत्व प्रमितत्वरूपत्वविकल्पाद्युक्तदोषापत्तिश्चेति ध्येयम् । 1 साध्यव्यापकेति प| 2 जीवाणुत्वे. ( जीवानन्यत्वे). 3 जीवाणु 27