पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] भाविबाधोद्धारः 415 बाघदर्शनेन व्यभिचाराञ्च | ब्रह्मान्यानादि परमार्थसत् अनादि- त्वात् ब्रह्मवादित्यपि न भद्रम् | ध्वंसा प्रतियोगित्वस्योपाधित्वात् । ब्रह्म देशकालसम्बन्धं विना नावतिष्ठते पदार्थत्वात् घटवदित्यपि न । कालसम्बन्धं विना नावतिष्ठते इत्यस्य यदा ब्रह्म तदा अवश्यं न 66 + " सम्भवात् । आरोपितं न हेतुरिति प्रलापस्तु प्रत्युक्त एव, शुद्धब्रह्माहेतु- त्वपक्षे आरोपितस्यैव हेतुत्वाच्च । यत्तु – “ व्यावृत्ताकारेत्यम्य पक्षमात्र- व्यावर्तकत्वेन आद्यस्योपाधेः पक्षेतरत्त्वरूपता द्वितीयोपाधौ तु साधन- व्यापकता, तत्रारोपितस्य तदधिष्ठानक भ्रमा हेतुत्वेन साधनाव्यापकत्व- सन्देहस्याप्यभावात् ” इति तत्तुच्छम् ; स्वजन्यभ्रमाधिष्ठानं यस्माद्व्यावृत्तं तद्भेदरूपोपाषौ तत्प्रतियोगिरूपविशेषणस्य उक्तचाकचक्यादिरूपविप क्षादपि व्यावर्तकत्वेन पक्षमात्राव्यावर्तकत्वात् साध्यव्यापकताग्राहक- तर्कसत्त्वे पक्षमात्रव्यावर्तकत्वमदूषणमित्यस्यदीधित्यादौ प्रदर्शितत्वाच्च । द्वितीये च न साधनव्यापकतानिश्चयः; तत्रारोपितस्य तदधिष्ठानकप्रमा. हेतुत्वे युक्तधभावादुक्तचाकचक्यादौ साधनाव्यापकत्वस्यैव निश्चयात्, पक्षे चानारोपितत्वं साधयितुं त्वयाऽद्यापि यत्यते, न तु निश्चीयत इति व्यभिचारसन्देहाधायकतया सन्दिग्धोपाधित्वस्य निर्विवादत्वाच्च उक्तो- पाघेरसत्त्वे उक्तसाध्यानुपपत्तेः साध्यव्यापकताग्रहादुक्तोपाध्यभावो यदि साध्याभावव्यभिचारी स्यातदान स्यादिति तर्कसत्वान्नाप्रयोजकतेति ध्येयम् । ब्रह्मान्यानादीति । अत्र पक्षे हेतौ चानादित्वं प्रागभावाप्रतियोगित्वं चेत्तदा तुच्छे बाधव्यभिचारौ, तद्वत्भावत्वं चेत्तदापि भावत्वमभावभिन्नत्वं चेत्तदा स्वरूपासिद्धिः । अविद्यादेरपि पूर्णानन्दाद्यभावत्वात् सत्तादात्म्यं चेत्तदापि त्वन्मते तदन्य- वैयर्थ्यम्, शुक्तिरूप्यादेस्त्वया तदनङ्गीकारात्, तन्मात्रहेतुत्वे च 1 वृत्ति. 2 3 भ्रम. भ्रम पा. 4 व्यापकत्वेऽस्त्यैव. -