पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] जडत्वनिरुक्तिः 1:51 रूप्यं स्वाभाविकम् । एवंच ज्ञानोपाधिकस्यैव सविषयत्व- स्य इच्छादिष्वभ्युपगमात् न तरां तत्र तस्य स्वाभावि त्वेन । यद्वा उक्तविरोधित्वोपहितचित्त्वेनैव ज्ञाघातुशक्यता | घटज्ञान- विरोधित्वपटाज्ञानविरोधित्वादिरूपेण नानार्थकत्वं तु इष्टमेव । घटज्ञान- मित्यादौ घटादिपदं तात्पर्यग्राहकम् । यत्किञ्चिदज्ञानविरोधचित्त्वेनैव वा तथा । असत्त्वापादकाज्ञानास्वीकारमते अनावृततत्तादात्म्यं तद्गोचर- बृत्तिश्चेत्यन्यतरोपहितचित्त्वेनैव तथा । नानार्थत्वा स्वीकारे तदिति तद्द्बोचरेति च न देयम् । तादात्म्ये तदीयत्वं वृत्तौ तद्विषयकत्वं- च शाब्दबोघे संसर्गतया भासते । एवं नित्यानन्दादिपदानामपि बोध्यम् । त्रिकालापरिच्छिन्नचित्त्वेन नित्यपदस्य चन्दनादिसेवाजन्यवृत्तिविशे- षाद्यवच्छिन्नचित्त्वेनानन्दपदस्याबाध्यत्वाद्युपहितचित्त्वेन सत्यादिपदस्य शक्यता । एवंच ज्ञानत्वेनेत्यस्य प्रकृते हेतूकृतभेदप्रतियोगित्वेनेत्यर्थः । ज्ञाघातुवाच्यत्वोपलक्षितव्यक्तिभेदो हेतुरिति भावः । न च तद्व्यक्ति- त्वेन तद्वयक्तेः भेदो हेतुः, तद्व्यक्तित्वं च तद्व्यक्तिरेव ; तथा च तस्याः सिद्धान्ते स्वकीये विशिष्टरूपे कल्पिततादात्म्य सत्त्वेऽपि शुद्धरूपे तदभावेन तादृशभेदसम्भवात् व्यभिचार, प्रपञ्चे तद्व्य क्तितादात्म्यस्य तदा सत्त्वेनासिद्धिश्चेति वाच्यम्; परमते शुद्धेपि तद्व्यक्तेरैक्यरूपसम्बन्धस्य स्वस्मिन् सत्त्वेन परार्थानुमाने ऐक्यरूप- सम्बन्धेन तद्व्यक्तिविशिष्टप्रतियोगिक भेदस्य हेतुत्वसम्भवात्, विशे- प्यताविशेषावच्छिन्न प्रतियोगिताकभेदत्वेन हेतुत्वस्याचार्यैरेव वक्ष्यमाण- त्वाच्च । सत्यत्वादिरूपे स्वधर्मता निर्वाह कमेदस्य शुद्धब्रह्माण स्वीकारमतेऽ- पि तस्याप्रत्यक्षत्वेन तत्प्रतियोगितायाः निरवच्छिन्नत्वात् तद्व्यक्तित्वाव- च्छिन्नप्रतियोगिताकमेदस्य तद्व्यक्ता वस्वीकारेणादोषाच्च तद्व्यक्तिवृत्ति- भेदभिन्नभेदो वा हेतुः । ज्ञानोपाधिकस्य सविषयकज्ञानतादात्म्यरू- 2 नासिद्धिर्वेति, 3 तछ्रुत्ता, 2 1 सदा. ,