पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

150 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः तथाहि – अज्ञानत्वं जडत्वमिति पक्षे नात्मनि व्यभिचारः अर्थोपलक्षितप्रकाशस्यैव ज्ञानत्वेन मोक्षदशायामापि तदन- पायात् । न चाभावे सप्रतियोगित्वर्वादच्छाज्ञानादिष्वपि स- विषयकत्वस्य स्वाभाविकत्वादिच्छायामिव ज्ञानेऽपि तस्य समानसत्ताकत्वमिति वाच्यम्; ज्ञानस्य हि सविषयत्वं विषयसम्बन्धः । स च न ताविकः, किन्त्वाध्या- सिकः, वक्ष्यमाणरीत्या तात्त्विक सम्बन्धस्य निरूपयितुमश- क्यत्वात् । अतो न तस्य स्वाभाविकत्वम् । न हि शुक्तौ स्ववृत्त्यभावप्रतियोग्यसत्त्वापाद का ज्ञानविषयतावच्छेदकत्व सम्बन्धेन चि- द्विशिष्ट इत्याकारकस्य हेतुत्वसम्भवात् चिदाश्रयत्वे आख्यातार्थे वा व्युत्पत्तिवैचित्रयादन्वय: ' । अथवा शक्तिज्ञानस्य चिद्विषयकशा- ब्दत्वेनैव कार्यता । घटं जानामीत्यादिसमभिव्याहारधीकार्यता तु घटा- द्यज्ञानविरोधिचित्त्वावच्छिन्न प्रकारता कशाब्दत्वेनैवेति न निर्धर्मितावच्छे- दकशाब्दषी: । आकाशादिपदवन्निरवच्छिन्न शक्यतामते तादृशरीतेराव- श्यकत्वात् । न चैवं ' सत्यं ज्ञानम्' इत्यादौ लक्षणया शुद्धचिद्बोध- सिद्धान्तहानिरिति वाच्यम्; विशिष्टचिद्वोधस्यौत्सर्गिकत्वेन शुद्धचि- होघमात्रे शक्तिज्ञानस्य प्रतिबन्धकत्वकल्पनात्, विशिष्टरूपेण बोधा- भावमात्रे लक्षणेति भाक्तव्यवहाराच्च । अन्यथा विशिष्टशक्तिपक्षेऽपि शुद्धे शक्तधनपायात् । न चैवमपि ज्ञानानन्दादिपदानां पर्यायतापत्तिरिति वाच्यम् ; आनन्दादिपदानां तुल्ययुक्तया शुद्धचिच्छक्तत्वेऽपि चन्दना - नन्द इत्यादौ चन्दन सेवाजन्यवृत्ति विशेषस्य सम्बन्धत्वादिना भाननियमन तावता विशेषेण पर्यायतावारणसम्भवादित्याशयेनाह – अर्थोपलक्षि- तप्रकाशस्येति । शुद्धचित इत्यर्थः । ज्ञानत्वेन – ज्ञानपदार्थ- 1 वैचित्र्यादयः,