पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

152 अद्वैतसिद्धिव्याख्याया गुरुचन्द्रिकायां [ प्रथमः कत्वम् । न चैवं ज्ञानवत् विषयसम्बन्धं विनापि कदा- चिदिच्छायास्सत्त्वापत्तिरिति वाच्यम्, सविषयत्वप्रयोजको- पाध्यपेक्षया अधिकसत्ताकत्वस्य तत्र प्रयोजकत्वात् इच्छायाश्च तत्समानसत्ताकत्वात् । न च त्वया मोक्षावस्थायामात्मनो निर्विषयत्वाङ्गीकारात् आनन्दप्रकाशे तदपुमर्थत्वं स्यादिति वाच्यम्; तदा ह्यानन्द एव प्रकाशो न त्वानन्दस्य प्रकाश- त्वम् । अर्थोपलक्षितप्रकाशत्वं वा तदास्त्येवेति न ज्ञानत्व- हानिरित्युक्तम् । ननु तथापि ज्ञातुरभावात् तदा तन ज्ञानम् । न हि भोक्तहीना भुजिक्रिया भवति । चानादित्वेन क्रियारूपत्वाभावात् अनपेक्षत्वमिति वाच्यम् ; अनादेः प्रागभावस्य प्रतियोगिनि, जातेर्व्यक्तौ, जीवब्रह्म- विभागस्य धर्मिप्रतियोगिनोरज्ञानस्य चाश्रयविषययोः, ब्रह्मसत्ता- याच कर्तर्यपेक्षादर्शनात् । अन्यथा 'अस्ति ब्रह्म' इत्यादौ कर्तरि लकारो न स्यात् । एवंचातीतादिज्ञानस्य ईश्वरज्ञानस्य च न पस्य ज्ञाने उक्तविरोधित्वादिविषयस्य ' सम्बन्धः । इच्छादिषु तु स्वनिष्ठ- मुक्तविरोधित्वादिमज्ञान’तादात्म्यमिति भावः । अथवा ज्ञानोपाधि- कस्येति । ज्ञानोपाध्यविद्याप्रयुक्तस्येत्यर्थः । न तरामिति । तात्त्वि- केऽपि ज्ञानस्वरूपे यदि तन्न तात्त्विकं तर्हि अतात्त्विकेच्छादौ तत्तथा न तरामित्यर्थः । एवंच मनोवृत्तिमात्रस्यातिरिक्तविषयता स्वीकारोपि न क्षतिः । नन्वानन्दसम्बन्धिप्रकाशस्य तदा बिरहे आनन्दाप्रकाशः स्यात् दुःखादिसम्बन्धाभावकाले साक्षिणि दुःखाद्यप्रकाशवत्तत्राह--- प्रकाशत्वमित्यादि । प्रकाशत्वं अप्रकाशरूपाज्ञानसामान्यविरोधिख- रूपम् । अर्थोपलक्षितप्रकाशत्वं आनन्दावारकाप्रकाशविरोधिस्वरू- 1 त्वादिविषयस्य 2 विरोधित्वादिदमशान,