पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैत सिद्धो विरहस्तावदापाद्यते, तदयुक्तम्; असन्नृभृङ्गमित्यादिवाक्यादस- तोऽपि प्रतीतेः, अन्यथा असद्वैलक्षण्यज्ञानायोगः, असत्प्रतीति- निरासायोगश्च, असत्पदस्य अनर्थकत्वे प्रयुक्तपदानां संभूय कार्यकारित्वायोगे बोधकत्वानुपपत्तिः, असतोऽसत्त्वेनाप्रतीताव- सव्यवहारानुपपत्तिः, तदुक्तम्- 132 [ प्रथमः 'असद्विलक्षणज्ञसौ ज्ञातव्यमसदेव हि । तस्मादसत्प्रतीतिश्च कथं तेन निवार्यते ||' इति – चेन्न; प्रतीत्यभावेऽप्यसतोऽसभृशङ्गमिति विकल्पमात्रे- णैव सर्वोपपत्तेः । तदुक्तम् – 'शब्दज्ञानानुपाती वस्तुशून्यो विकल्प' इति । न च — विकल्प इच्छादिवज्ज्ञानान्यवृत्तिर्वा, ज्ञानविशेषो वा । आद्ये अनुभवविरोधप्रतीत्ययोगौ, द्वितीये असतः प्रतीतिरागतैव । वस्तुशून्य इत्यत्रापि किमपि नोल्लिख- तीति वा, असदेवोल्लिखतीति वा । आद्ये अनुभवविरोधः, द्वितीये इष्टापत्तिरिति – वाच्यम्; विकल्पस्य ज्ञानान्यवृत्तित्वे बाधकाभावात्, शशविषाणमनुभवामीत्यप्रत्ययाच्च । वस्तुशून्यता दळद्वयार्थः, तेनासति सत्त्वेन प्रतीतेर्भ्रान्तैः स्वीकृतत्वेऽपि न क्षतिः । सर्वोपपत्तेरिति । असद्विलक्षण प्रपञ्च इत्यादि वाक्यादसंशे विकल्प, प्रपञ्चाद्यंशे प्रमा, तदुभयावच्छिन्नचितमादाय संभूयका- रित्वम् । अत एवेदं रूप्यमित्यादिशब्दात्प्राभाकररादिभिस्तथोच्यते । एकैव वा वृत्तिरांशिकविकल्पप्रमारूपेति भावः ॥ ननु –– ‘प्रमाणविपर्ययविकल्पनिद्रास्मृतय' इति पातञ्जलीय- सूत्रस्य ज्ञानविभाजकत्वात् संस्कारजनकत्वाच्च विकल्पोऽपि ज्ञानम् । अत एव निद्रारूपा सौषुप्ती वृत्तिरपि ज्ञानमेव । अर्थविकल्पस्य ज्ञान - त्वाभावेऽपि स्वातन्त्रयेण संस्कारजनकत्वमुपेत्य संस्कारजनक वृत्तिविभा- -