पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, परिच्छेदः] अविद्याद्यनिर्वाच्यत्वे अर्थापत्तिप्रमाणनिरूपणम् नासद्विलक्षणत्वेन विपर्ययापर्यवसानम् ; प्रतिपन्नोपाधिस्थनिषेध- प्रतियोगित्वस्यासत्यसंभवेनासद्वैलक्षण्यस्यैव विपर्ययपर्यवसान- प्रयोजकत्वात् । असच्चेदित्यत्रापि यद्यप्यसत्त्वं न सत्ताजाति- राहित्यम्; सत्ताहीने सामान्यादौ व्यभिचारात् । यत्त्वा- त्मनि व्यभिचारादित्युक्तं परैः, तन्न; तन्मते आत्मनि सत्तायाः सत्त्वेनापादकस्यैवाभावात् अस्मन्मते च तत्र दृश्यत्वस्यैवा- भावनापाद्यस्यैव भावात् । नापि बाध्यत्वम्; शुक्तिरूप्यादौ व्यभि- चारापत्तेः; तथापि निरुपाख्यत्वं निःस्वरूपत्वं वा असन्त्वम् । न च - निरुपाख्यत्वं ख्यात्यभावः, तथाचापाद्यावैशिष्टयमिति- वाच्यम् ; निरुपाख्यत्वस्य पदवृत्याविषयत्वरूपत्वात् । ननु निःस्वरूपत्वं स्वरूपेण निषेधप्रतियोगित्वम्, तच्च प्रपञ्चसाधा- रणमिति तत्र व्यभिचारः, न च – पारमार्थिकत्वाकारेण निषेधो न स्वरूपतः प्रपञ्चस्येति – वाच्यम् ; निर्धर्मकब्रह्मण्यपि तेन रूपेण निषेधात्तस्यापि मिथ्यात्वापत्तेरिति – चेन्न; मिथ्यात्व- लक्षणे प्रतिपन्नोपाधाविति विशेषणबलात्तत्र नातिव्याप्तिरित्यु- तत्वात् । यस्मिन्नपि पक्षे प्रपञ्चस्य स्वरूपेण निषेधः, तदा अप्रतिपनोपाधिकत्वे सति स्वरूपेण निषेधप्रतियोगित्वं निःस्वरू- पत्वम् । न चैतत्प्रपञ्चेऽस्ति, येन तस्मादसन्न भवतीति विपर्य- यपर्यवसानं न स्यात् । ननु – न प्रतीयेतेत्यत्र प्रतीतिसामान्य- - 131 प्रतिपन्नोपाधिस्थेति । स्वसमानाधिकरणेत्यर्थः । पदवृत्तीति । देशकालसंबन्धाभावेन तुच्छस्य न पदवृत्तिविषयत्वम् । शशविषा- णादिपदजन्यो विकल्पस्तु न पदवृत्तिसापेक्षः; शाब्दप्रमाविपर्यययोरेव तत्त्वादिति भावः । प्रतिपन्नोपाधौ– स्वाधिकरणे निषेधांश इत्यादिः । अप्रतिपन्नोपाधिकत्वे –सत्त्वेन प्रतीत्यनर्हत्वे । कालासंबन्धित्वं 9*