पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पॅरिच्छे ::] अविद्याद्यनिर्वाच्यत्वे अर्थापत्ति प्रमाणनिरूपणम् 133 च सोपाख्यधर्मानुल्लेखित्वम्, अतो न कोऽपि दोषः । विक- ल्पस्य ज्ञानत्वे तु तदन्यज्ञानविषयत्वाभाव आपाद्यः । शुक्ति- रूप्यादेरसत्वे च प्रतीतिविषयत्वं विकल्पान्यप्रतीतिविषयत्वं वानुपपन्नमित्यनिर्वाच्यत्वसिद्धिः । यद्वा - सत्वेन प्रतीत्यभाव एवापाद्यः । ननु – प्रमारूपतादृक्प्रत्ययाभावापादनमिष्टमेव । न ह्यसतः सत्त्वेन प्रतीतिः केनचित् प्रमोच्यते । न च तादृग्भ्रा- न्तिविरहस्तादृक्प्रतीतिसामान्यविरहो वाऽऽपाद्यः; येन पुंसा - -- " शशे शृङ्गाभावो नावगतस्तस्य गोशृङ्गमस्तीति वाक्यादिव शशशृङ्गमस्तीति वाक्यादपि भ्रान्तिदर्शनात्, न हि घढधपादि- शब्दवदत्र पदार्थानुपस्थापकत्वम्, न वा कुण्डमज़ाजिनमित्या- दिवदन्वयाबोधकत्वम् ; अयोग्यताज्ञानाभावस्य योग्यताश्रमस्य वा आकाङ्क्षादिसामग्रीसधीचीनस्य सत्चात्, अन्यथा प्रतीत्याद्य- भावप्रसङ्ग इति – चेन्न; 'इदं रजत' मिति प्रात्यक्षिक भ्रमवद- स्याप्यनिर्वाच्यविषयत्वात्, न च - अस्याप्यनिर्वाच्यत्वे रूप्या- 1

जकत्वपक्षे सूत्रम्, इच्छादीनां चोक्तवृत्तिमूलकत्वेनोक्तविभागप्रदर्शने- नैव निरोद्धव्यसकलवृत्तीनां ज्ञापनं ज्ञानविभाजकत्वपक्षेऽपि तुल्यामिति - चेन्न ज्ञानत्वेनैव विकल्पस्य हेतुतासंभवे स्वातन्त्र्येण हेतुत्वे गौरवात्, अन्यथा विपर्यगादीनामपि तदापत्तेः, जानामीति प्रत्ययस्तु विकल्पस्थलेऽपि तुल्य इत्यम्वरसादाह विकल्पस्येति । ज्ञानत्वे 'ह्रीर्धीर्भी' रित्यादिश्रुत्युक्तत्विाख्यजातिविशेषवत्त्वे । न हीति । अगृहीतपदार्थसंबन्धकेति शेषः । न वेति । अयोग्यार्थकेति शेषः । शाब्दादिभ्रमस्याली कविषयत्व संभवादाइ प्रात्यक्षिकेति । ननु -- असदेवेदमग्र आसी 'दित्यादिश्रुत्येवोक्तवाक्येनाप्यसतः सत्त्वेन प्रती - 1 विभाजकं सू- ग. ? विशेषत्वे - क. ग. 6