पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] द्वितीयमिथ्यात्वनिरूपणम् - हारिकत्वापहारेऽपि प्रतीतिरनुवर्तत एव । अधिष्ठानाज्ञाननि- वृत्तौ तु नानुवर्तिष्यते । एतेन – “ उपाधिशब्देनाधिकरणमात्र विवक्षायामर्थान्तरम्, वाय्वधिकरणकात्यन्ताभावप्रतियोगित्वेऽ- पि रूपस्यामिथ्यात्वात् । अधिष्ठानविवक्षायां तु भ्रमोपादाना- ज्ञानविषयस्य अधिष्ठानत्वेन अन्योन्याश्रयत्वम् ; ज्ञानस्य भ्रमत्वे विषयस्य मिथ्यात्वं, विषयस्य मिथ्यात्वे च ज्ञानस्य भ्रमत्वम् " इति परास्तम् । उक्तरीत्या अधिकरणविवक्षायां दोषाभावात् । न च ' स एवाधस्तात्' इति श्रुत्या प्रतिप देशकालाद्युपाधौ परमार्थतो ब्रह्मणोऽभावात्तत्रातिव्याप्तिरिति वाच्यम् ; निर्धर्मके तस्मिन्नभावप्रतियोगित्वरूपधर्माभावात् । कपरोक्षप्रपञ्चान्तरं जायते । अतएवापरोक्षब्रह्मज्ञानोत्तरमपि प्रपञ्च- निवृत्तौ पुनः प्रपश्चान्तरं अङ्गीक्रियत इति परोक्षब्रह्मज्ञानोत्तरं परोक्षापरोक्षप्रपञ्चधीः न विरुध्यत इति भावः । अधिष्ठानेति । तिक्तत्वाभाववद्गुडादीत्यर्थः । तथाचाज्ञानोच्छेदकत्वेऽपि विरोधिवि- षयकत्वं नापेक्षत' इति भावः । नानुवर्तिष्यत इति । निवृत्ते- प्यज्ञाने प्रपञ्चस्य न निवृत्तिः । जातेऽप्यधिष्ठानसाक्षात्कारे नाज्ञानं निवर्तते भुज्यमान कर्मणा प्रतिबन्धादित्यादिकं त्वन्यत् । निर्ध- र्मक इति । सत्यादिपदवाच्यसम्बन्धाज्ञानविषयत्वादिकं तु तदुप- हिते न तु केवले इति भावः । केवले तदशकारे तदन्यधर्मराहि- त्यमेव निर्धर्मकत्वम् । केवलस्य जगदुपादानत्वपक्षेsपि न दोषः । दृश्यमात्रधर्मतानियामको यस्साधारणस्सम्बन्धो हनिष्ठतादात्म्यं तदन्य- सम्बन्धेन यत् सधर्मकं तदन्यस्य निर्धर्मकपदेनोक्तिसम्भवात् तावतापि स्वरूपादिसम्बन्धेन प्रतियोगित्वादिराहित्यलाभेन प्रकृतोपयोगात् । न च प्रपञ्चे ब्रह्मसम्बन्धस्य मिथ्यात्वात् ब्रह्मणोऽभाव इति वाच्यम्; 1 सापेक्ष्यते. 2 वाद्युच्यमान. 6* 83