पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

82 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां , तत्र ' इयं शुक्ति: ' इत्यपरोक्षप्रमया प्रातीतिकरजतोपादाना ज्ञाननिवृत्तौ प्रातीतिकसत्त्वस्याप्यपहारात्, शुक्तयज्ञानस्य प्रा तीतिकरजतोपादानत्वेन तदसत्त्वे प्रातीतिकरजतासत्त्वस्य आव श्यकत्वात् । अतएव यत्र अपरोक्षया अधिष्ठानप्रमया = भ्रमोपादानाज्ञाननिवृत्तिः तत्र व्यावहारिकत्वापहारेऽपि प्राती- तिकत्वानपहारात् । 'तिक्तो गुडः' इत्यादिप्रतीतिरनुवर्तत एव एवमखण्डब्रह्मसाक्षात्कारात्पूर्व परोक्षबोधेन प्रपञ्चस्य व्याव क्षतिः । तत्र तादृशाभावधियो बाधकत्वाभावेऽपि शुक्तित्वाद्यधिष्ठा नतावच्छेदकप्रमाया बाधकत्वेन उक्तबाधोत्तरं तदप्रतीतिसम्भवादि त्याह -- तत्रेति । भिन्नसत्ताकाभावज्ञानस्यापि मूलोच्छेदकत्वादेव प्रति योग्यप्रतीतिप्रयोजकत्वम्। अतएव परोक्षस्य तस्यामूलाच्छेद 'कत्वेनातथा त्वमिति अप्रतीतिप्रयोजके मूलोच्छेदकत्वरूपे बाधकत्वे विरोधि विषयकत्वं न प्रयोजकम् । नाप्युक्तभ्रमत्वज्ञापकत्वरूपे बाधकत्वे तत् तथा उक्ता परोक्षस्य विरोध्यभावाविषयकस्यापि तत्सत्त्वादिति भावा भावविरोधस्वीकारः ते वृथेत्याभप्रेत्याह–अतएवेति । अभावविरोधि स्वानपेक्षस्या ज्ञानोच्छेदस्यैव तत्कार्यप्रातीतिकसत्त्वापहारकत्वादेवेत्यर्थः व्यावहारिकत्वापहारे- स्वान्यूनसत्ता कसन्मात्रनिष्ठात्यन्ताभावप्रतियोगित्वेन शाप्यत्वे । तथाच भ्रमत्वज्ञापकत्वे विरोधिविषयकत्वं नापेक्ष्यत इति भावः । व्यावहारिकत्वापहारेऽपि प्रातीतिकत्वेति । एकस्यैव मूला ज्ञानस्य नित्यपरोक्षापरोक्ष प्रपञ्चोपादनत्वात् । अपरोक्षोपादानाज्ञानं प्रत्य परोक्षस्यैव निवर्तकत्वात् तदभावादुक्ताज्ञानानिवृत्त्या प्रपञ्चमात्रप्रती तिरित्यर्थः । अथवा अपरोक्षप्रपञ्चोपादानाज्ञानादन्यदेवास्तु परोक्षप्र पञ्चोपादानमज्ञानम् । तथापि परोक्षब्रह्मज्ञानेन तन्निवृत्त्या तदुपादा नकप्रपञ्चे निवृत्तेऽपि प्रारब्धभोगानुरोधेन कल्प्यमानसंस्कारोपादान 1 मूलोच्छेद. 2 तथा व 4 नित्यपरोक्ष. 3 उक्त. [ प्रथम