पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

84 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः , - तावताऽपि प्रपञ्चे ब्रह्माभावासिद्धेः प्रत्यक्षाभावात्, घटस्सन्नित्यादावु- पहितब्रह्मण एवैन्द्रियकत्वात् अभावांशे निरवच्छिन्नप्रकारताकज्ञा- नासम्भवेन केवलप्रतियोगिकाभावाभानात् । प्रतियोगिविशेषिताभाव- भानं तु विशिष्टवैशिष्ट्यबोधमर्यादां नातिशेते इत्याद्यमियुक्तोक्तः, अनुमानस्य चाप्रयोजकत्वात्, तद्व्यतिरेकेण कार्यानुपपत्त्यभावात् प्रति- योगसम्बन्धस्याभावविरोधित्वात् । अतएव सिद्धान्तबिन्दौ ब्रह्मणोऽ- भावाप्रतियोगित्वं सर्वत्र सता सम्बन्धादित्युक्तम् । एतेन - निर्धर्मकत्वात् ब्रह्मणः पारमार्थिकत्वादितदवृत्तिघभैरभावसम्भवः प्रतियोगित्वस्य च सत्यत्वादिवत् स्वरूपात्मकत्वात् ब्रह्मणि सम्भव इत्यादि परास्तम् । मिथ्यात्वादिग्राहकमानस्य ब्रह्मभिन्नतयैव प्रवृत्ततया ब्रह्मणो मिथ्या- त्वाद्यभावसत्यत्वादिस्वरूपत्वेऽपि प्रतियोगित्वादिस्वरूपत्वे मानाभावात् । किंच पारमार्थिकत्वादितदवृत्तिधर्मेणाभावः किञ्चिद्धर्मविशिष्टस्यैव ब्रह्मणो ज्ञातुं शक्यः, न तु केवलस्य घटादौ पारमार्थिकामत्याद्यनाहार्य- ज्ञानसत्त्वेन घटादौ न पारमार्थिकमिति ज्ञानासम्भवात्, पारमार्थिक- त्वाद्यवच्छिन्न प्रतियोगिताकत्वविशिष्टधीत्वेन सामान्यतः उक्तीप्रतिब- ध्यत्वात् । अतएवात्र घट इत्युक्तधीसत्त्वे अत्र घटत्वेन पटो नेति धीः, न त्वत्र घटो नेत्याकारा घटाभावस्यापि धीः । अतएव प्रति- योगित्वे मानाभावादित्यनुक्ता मानासम्भवलाभार्थं निर्धर्मक इत्याधु- क्तम् । अपिच किश्चिद्धर्मावच्छिन्नस्य मिथ्यात्वेन स्वान्यूनसत्ताका- भावप्रतियोगित्वं शङ्कास्पदम् । अतादृशस्य तु सत्यस्वरूपत्वेन न तत्तथेत्यपि निर्धर्मकेत्याद्यर्थः । यत्तु – “येन रूपेण यदधिकरणतया यत्प्रतिपन्नमित्यादि सन्मात्रनिष्ठेत्यादि च अयुक्तम्, लाघवेन स्वाभाव- त्वेनैव स्वविरोधित्वात् समसत्ताकत्वस्य गौरवेणाप्रवेशात् सत्ताभेद- स्याद्याप्यसिद्धेश्च मिथ्यात्वानुमानादेव तत्सिद्धावन्योन्याश्रयात् श्रुतेः 2 , 1 सदा. → 2 तादृशस्य.