सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1883 . २ वि०पटलः ] गोपीनाथंभट्टकृतज्योत्साव्याख्यासमेतम् । ६१३ कनिष्ठिकाभिः क्रमेण मानत्रयमित्ययमेव मानकमो युक्तः पुनस्तनन्यादिक्रमस्वीकार एकयैकयोत्सर्ग मिमीत इत्येतच्छ्रुतिविरोधापत्तेः । एवं चायातयान्नियाऽयातयाम्नियैवैनं मिमीत इत्यनया श्रुत्यैकयैकयोत्सृष्टया माने कृतेऽयातयानियाऽयातयान्नियैव मानं कृतं भवति । सकृत्प्रवृत्ताया अनन्तरमेव प्रवृत्त्यभावात् । यातयाम गतरसत्वं न भविष्यतीति तात्पर्यार्थः । अथवा कनिष्ठिका मध्यमोपकनिष्ठिका तर्नन्युपकनिष्ठिका तर्जनी कनिष्ठिका तर्नन्युपकनिष्ठिका कनिष्ठिकेत्येवं क्रमेण वा । एतेन 'कनिष्ठिकादि- भिश्चतमृभिः क्रमेण तनन्यादिमियुक्रमेणोपकनिष्ठिकया कनिष्ठिकया चेति । अथवा कनिष्ठिकादिमिश्चतसृभिः क्रमेण ( *तर्जन्यादिभिर्युत्क्रमेण तर्जन्या कनिष्ठिकया चेति । अथवा कनिष्ठिकादिभिधतसृभिः क्रमेण ) तर्जन्या पुनः कनिष्ठिकादिभिश्चतसृमिः क्रमेण कनिष्ठिकया चेति, एते कमा निरस्ता भवन्ति । तयैव यया प्रथम मानं कृतं तयैवागुया दशमं मानं कर्तव्यम् । आद्यान्त्ययोमानयोरैकरूप्यसंपत्ते रिति भावः ।

पञ्चकृत्वो यजुषा मिमीते पञ्चकृत्वस्तूष्णीम् ।

ननु यजुषेति वचनमनुपपन्नं पादबद्धत्वेनाभित्यमित्यस्यवादिति चेत्सत्यम् । नैष दोषः । कुतः, ब्राह्मणानुसारिवानिदेशस्य । यजुर्वेदसमाम्नातानामावर्यवोपयुक्तानामृ. चामपि मौर्ण यजुष्वमिति । तासां भ्रषप्रायश्चित्तमेव कर्तव्यम् । ऋचेति वचनस्य प्रयोजनं तु यदृचोऽधीत इत्यदृष्टप्रतिपत्त्यर्थमित्युक्तमेव प्राक् । एतेनैव दर्शनेनार्वेदस्थ- यजुपां हौत्रोपयुक्तानामृग्भ्रेषप्रायश्चित्तमेव । अदृष्टं तु लक्षणानुगत्या वेदाधिकारा- स्ववेदोक्तमप्यस्यैवेति । यदि त्वतिरात्रादिकं महत्कर्म तत्र दीर्घत्रिपर्वविशिष्टांशुसमुदा. यात्मकजूटिका मातव्याः।

प्रजाभ्यस्त्वेति परिशिष्टानꣳशूनुपसमूहति ।

मानतः परिशिष्टानंशन्दशकृत्वो मिमानी राज्ञोऽध मातव्यम् । तथाच बौधायन:- दशकृत्वो-मिमानोऽर्धवेलं राज्ञौ मिमीत इति । वेला मर्यादा । परीत्युपतर्गः समन्तभागस्था- नामेवावशेषस्तेषामेवात्र ग्रहणमिति द्योतयति । एतेन दशकृत्वो माने मध्यगतानामेव ग्रहणं सिद्धं भवति । उपोपर्येव समूहति मिते राज्ञि यावदर्थ प्रक्षिपति नैतेषां परि- माणम् । श्रूयते च-यद्वै तावानेव सोमः स्याद्यावन्तं मिमीते यजमानस्यैव स्यान्नापि सदस्यानां प्रजाम्यस्त्वेत्युपसमूहति सदस्यानेवान्वाभनतीति । तस्मात्प्रदेयविवृद्धिर- संस्थासु | कात्यायनेनोक्तं - अर्थात्परिमाणमिति सूत्रेणाऽऽधिकं परिमाणम् । यदि दशमुष्टिपरिमित एव सोमः स्यात्तदा स यजमानस्यैव स्यान्नतु सदसि विद्यमाना- ,

  • धनुचिहान्तर्गत ख. ग. पुस्तकयोन विद्यते ।